पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६५
अष्टादशः सर्गः ।

 नैरन्तर्यच्छिन्नदेहान्तरालं दुर्भक्षस्य ज्वालिना वाशितेन ।
 योद्धर्बाणप्रीतमादीप्य मांसं पाकापूर्वस्वादमादे शिवाभिः ॥७६॥

 नैरन्तर्येति ॥ नैरन्तर्येणाविच्छेदेन छिन्नं देहस्यान्तरालं यस्मिन्कर्मणि तद्यथा तथा बाणैः प्रोतं स्यूतम् अत एव दुर्भक्षस्य भक्षितुमशक्यस्य । कृच्छ्रार्थे खल्प्रत्ययः । योद्धुर्योधस्य संबन्धि मांसं ज्वालिना ज्वालावता वाशितेन रुतेन । शिवानां वाशने जिह्वा ज्वलतीति प्रसिद्धिः । आदीप्य प्रज्वाल्य । बाणदाहाय मांसपाकाय चेति भावः । अत एव पाकेनापूर्वोऽभिनवः स्वादो रुचिर्यस्य तत्तथा शिवाभिर्गोमायुभिः । 'स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः' इत्यमरः । आदे जघसे । भक्षितमित्यर्थः । 'लिट्यन्यतरस्याम्' (२।४।४०) इति विकल्पा- ददेर्न घस्लादेशः । वाशितोत्थया जिह्वाज्वालया दग्धेषुप्रतिबन्धेन पाकरुचिरं जघस इत्यर्थः । अत्र पाकापूर्वास्वादाद्यसंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥७६॥

 ग्लानिच्छेदी क्षुत्प्रबोधाय पीत्वा रक्तारिष्टं शोषिताजीर्णशेषम् ।
 स्वादुंकारं कालखण्डोपदंशं क्रोष्टा डिम्बं व्यष्वणव्द्यस्वनच्च ॥७७॥

 ग्लानीति ॥ क्रोष्टा जम्बुकः क्षुत्प्रबोधाय ग्लानिच्छेदी खेदहारी शोषितो जारितः अजीर्णशेषो येन तद्रक्तमेवारिष्टं पानविशेष इति रूपकम् । तत्पीत्वा स्वादुंकारं स्वादूकृत्य । 'स्वादुमि-' (३।४।२६) इति णमुल् । कालखण्डेन यकृता उपदंशं कालखण्डं उपदंशं कृत्वेत्यर्थः । 'कालखण्डयकृती तु समे' इत्य- मरः । 'उपदंशस्तृतीयायाम्' (३।४।४७) इति णमुल् । कालखण्डस्य दशन- क्रियाकर्मत्वेऽपि भुजिक्रियाकरणत्वात्तृतीयोपपदतया 'तृतीयाप्रभृतीन्यन्यतरस्याम्' (२।२।२१) इति विकल्पेनोपपदसमासः । डिम्बं कलेवरं व्यष्वणत् । भुक्तवा- नित्यर्थः । 'वेश्च स्वनो भोजने' (८।३।६९) इति षत्वम् । व्यस्वनदवादयच्चेति समुच्चयः । अभोजनार्थत्वात्षत्वं न ॥ ७७ ॥

 क्रव्यात्पूगैः पुष्कराण्यानकानां प्रत्याशाभिर्मेदसो दारितानि ।
 आभीलानि प्राणिनः प्रत्यवस्यन्कालो नूनं व्याददावाननानि ॥७८॥

 क्रव्यादिति ॥ क्रव्यमदन्तीति क्रव्यादो मांसभक्षकाः कङ्कगृध्रादयः । 'क्रव्ये च' (३।२।६९) इति विट् प्रत्ययः । तेषां पूगैः कर्तृभिः मेदसो वसायाः। 'मेदस्तु वपा वसा' इत्यमरः । प्रत्याशाभिस्तृष्णाभिर्दारितानि मेदस्वित्वभ्रान्त्या पाटितान्यानकानां तूर्याणां पुष्कराणि मुखानि । 'पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखेजले' इत्यमरः । प्राणिनः करितुरगादीन् प्रत्यवस्यन्नभ्यवहरन् । 'अभ्यवहारः प्रत्यवसनं भोजनं जग्धिः' इति हलायुधः । कालोऽन्तकः आभीलानि भयंकराणि । 'आभीलं भीमकृच्छ्रयोः' इति विश्वः । आननानि व्याददौ विददार । 'आङो दोऽनास्यविहरणे' (१।३।२०) इत्यस्य प्रत्युदाहरणमेतत् । यानि विदारितानि पुष्कराणि तान्येवाननानि । नूनमित्युत्प्रेक्षायाम् ॥ ७८ ॥