पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६४
शिशुपालवधे

 पद्माकारैरिति ॥ उच्चैर्वाचिषु तरद्भिः प्लवमानैः पद्माकारैः कमलकल्पैर्योध- वक्त्रैर्भटमुखैरिभानां कर्णेभ्यो भ्रष्टैश्चामरैर्हंसैः सोपस्काराः सपरिकराः। 'संपर्यु- पेभ्यः करोतौ भूषणे' इति सुडागमः । अस्रतोया रक्तजलाः स्रोतस्विन्यो नद्यः प्रावहन् । अत्र रूपकोपमयोः संकरः सुगमः ॥ ७२ ॥

 उत्क्रान्तानामामिषायोपरिष्टादध्याकाशं वभ्रमुः पत्रवाहाः।
 मूर्ताः प्राणा नूनमद्याप्यवेक्षामासुः कायं त्याजिता दारुणास्त्रैः ७३

 उत्क्रान्तानामिति ॥ पत्राणि वहन्तीति पत्रवाहाः पत्रिणः । आमिषाय आमिषमत्तुम् । ‘क्रियार्थोपपदस्य च कर्मणि स्थानिनः' (२।३।१४) इति चतुर्थी । उत्क्रान्तानां मृतानामुपरिष्टादध्याकाशमाकाशे । विभक्त्यर्थेऽव्ययीभावः । बभ्रमुः भ्रेमुः । 'वा जॄभ्रमुत्रसाम्' (६।४।१२४) इति विकल्पादेत्वाभ्यासलोपा- भावः । अत्रोत्प्रेक्ष्यते-दारुणास्त्रैर्घोरास्त्रैः कायं त्याजिता विसर्जिताः । त्यजेण्र्यन्ता- द्विकर्मकात्कर्मणि क्तः । ‘ण्यन्ते कर्तुश्च कर्मणः' इति वचनात् । मूर्ता मूर्तिमन्तः प्राणा अद्येदानीमपि कायमवेक्षामासुः पूर्वाभिमानात्पुनः कायप्रवेशापेक्षिणो मूर्ताः प्राणा एव नूनमाराभ्द्रमन्तीत्युत्प्रेक्षार्थः । 'इजादेश्च गुरुमतोऽनृच्छः' (३।१।३६) इत्याम्प्रत्ययः 'कृञ्चानुप्रयुज्यते लिटि' (३।१।४०) इत्यस्तेरनुप्रयोगः 'आम्प्रत्य- यवत्-' (१।३।६३) इत्यत्र कृञ एवेति नियमादस्तेर्नात्मनेपदम् ॥ ७३ ॥

 आतन्वद्भिर्दिक्षु पत्राग्रनादं प्राप्तैर्दूरादाशु तीक्ष्णैर्मुखाग्रैः ।
 आदौ रक्तं सैनिकानामजीवैर्जीवैः पश्चात्पत्रिपूगैरपायि ॥७४ ॥

 आतन्वद्भिरिति ॥ दिक्षु पत्राग्रनादं पक्षान्तघोषं आतन्वद्भिर्विस्तृणद्भिः दूरादाशु प्राप्तैरागतैः अजीवैरचेतनैः । पचाद्यजन्तेन नञ्समासः । पत्रिपूगैः । बाणव्रातैरित्यर्थः । तीक्ष्णैर्मुखाग्रैः करणैः सैनिकानां रक्तमपायि पीतम् । पिबतेः कर्मणि लुङ् । 'आतो युक्क्रिण्कृतोः' (७।३।३३) इति युगागमः । पश्चाजीवैश्चेतनैः पत्रिपूगैः पक्षिसङ्घैः कर्तृभिस्तीक्ष्णैः मुखाग्रैश्चपुटैः करणैरपायि । अत्रोभयेषां पत्रिणां प्रकृतत्वात्केवलप्रकृतविषयः श्लेषः ॥ ७४ ॥

 ओजोभाजां यद्रणे संस्थितानामादत्तीव्रं सार्धमङ्गेन नूनम् ।
 ज्वालाव्याजादुद्वमन्ती तदन्तस्तेजस्तारं दीप्तजिह्वा ववाशे ॥७५॥

 ओजोभाजामिति ॥ दीप्ता ज्वलन्ती जिह्वा यस्याः सा दीप्तजिह्वा शिवा । रणे संस्थितानां मृतानां ओजोभाजामोजस्विनां अङ्गेन गात्रेण साधं यत्तीव्रं तिग्मं तेज आददभक्षयत् । अदेर्लङ् 'अदः सर्वेषाम्' (७।३।१००) इत्यडागमेऽपृक्तस्य 'आडजादीनाम्' (६।१।७२) इत्यांडागमोऽङ्गस्य 'आटश्च' (६।१।९०) इति वृद्धिः । तदन्तरन्तरेऽन्तरितं तेजो ज्वालाव्याजान्मुखोल्काच्छलादुद्वमन्ती तारमुचैर्ववाशे रौति स्म । 'तिरश्चां वाशितं रुतम्' इत्यमरः । नूनमित्युस्प्रेक्षायाम् । अत्र व्याजशब्देन ज्वालास्वापहृवेन तेजस्त्वोत्प्रेक्षणे सापहवोत्प्रेक्षेति सर्वस्वकारः ॥ ७५॥