पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६३
अष्टादशः सर्गः ।

 रैजुरिति ॥ व्यसूनां मृतानां पार्थिवानां वक्षसो भ्रष्टाः पतिताः कुङ्कुमाङ्काः । कुङ्कुमारुणिता इत्यर्थः । मुक्ताहाराः पूर्णकामस्य सकलराजकसंहारासफलमनो- स्थस्य अत एव पीतं रक्तमेवासवं येन तस्य मृत्योः हासादट्टहासाल्लक्ष्या दृश्या दन्ता रेजुरिति मन्ये इत्युत्प्रेक्षा ॥ ६८॥

 निम्नेष्वोघीभूतमस्त्रक्षतानामस्रं भूमौ यच्चकासांचकार ।
 रागार्थ तत्किं नु कौसुम्भमम्भः संव्यानानामन्तकान्तःपुरस्य ६९

 निम्नेष्विति ॥ भूमौ निम्नेषु निम्नस्थलेष्वोघीभूतं राशीभूतमस्त्रक्षतानां संबन्धि यदस्रं रक्तं चकासांचकार दिदीये । 'चकासृ दीप्तौ' इति धातोर्लिट् । 'कास्यनेकाच आम्वक्तव्यः' इत्याम्प्रत्यये कृञोSनुप्रयोगः। तदस्रमन्तकान्तःपुरस्य कृतान्तावरोधस्य संव्यानानामुत्तरीयाणां रागार्थं रञ्जनार्थं कुसुम्भस्येदं कौसुम्भं अम्भः किं नु कुसुम्भद्रवो नु वेत्युत्प्रेक्षा ॥ ६९ ।।

 रामेण त्रिःसप्तकृत्वो हृदानां चित्रं चक्रे पञ्चकं क्षत्रियास्रैः ।
 रक्ताम्भोभिस्तत्क्षणादेव तस्सिन्संख्येऽसंख्याः प्रावहन्द्वीपवत्यः७०

 रामेणेति ॥ रामेण भार्गवेण सामर्थ्यात्रीन्वारान् त्रिः । ' द्वित्रिचतुर्भ्यः सुच्' (५।४।१८) इति सुच्प्रत्ययः । त्रिरावृत्ताः सप्त त्रिःसप्तकृत्वः। एकविंश- तिवारानित्यर्थः । 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' (५।४।१७) इति कृत्वसुच् प्रत्ययः । क्षत्रियास्त्रै राजन्यरक्तैः चित्रमद्भुतं हृदानां पञ्चपरिमाणमस्य पञ्चकम् । 'संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' (५।१।५८) इति सङ्घार्थे कन्प्र- त्ययः । चक्रे कृतम् । तस्मिन्संख्ये युद्धे । 'मृधमास्कन्दनं संख्यम्' इत्यमरः । क्षणादेव रक्तरेवाम्भोभिः असंख्या द्वीपवत्यो नद्यः प्रावहन्प्रासरन् । रामेण बहुकालेन च स्यमन्तपञ्चकाख्यं हृदपञ्चकमेव कथंचित्कृतम् । अत्र तु क्षणमात्रेणा- संख्या नद्यः प्रवृत्ता इत्युपमानादुपमेयस्याधिक्योक्तेर्व्यतिरेकालंकारः ॥ ७० ॥

 संदानान्तादस्त्रिभिः शिक्षितास्त्रैराविश्याधः शातशस्त्रावलूनाः ।
 कूर्मौपम्यं व्यक्तमन्तर्नदीनामैभाः प्रापन्नङ्घ्रयोऽसृङ्मयीनाम् ॥७१॥

 संदानान्तादिति ॥ शिक्षितास्त्रैरभ्यस्तास्त्रविद्यैरस्त्रिभिरायुधीयैः अधः रथाना- मधस्तादाविश्य प्रविश्य संदानान्ताद्वन्धनप्रदेशात् । गुल्फप्रदेशमधिकृत्येत्यर्थः । 'संदानं पशूनां पादबन्धनम्' इति विश्वः । शातं शितम् । 'शाच्छोरन्यतरस्याम्' (७।४।४१) इति विकल्पादीत्वाभावः । तेन शस्त्रेणावलूनाश्छिन्नाः । इभाना- मिमे ऐभाः अङ्घ्रयश्चरणाः असृङ्मयीनां रक्तविकाराणां नदीनामन्तरभ्यन्तरे व्यक्तं कूर्मौपम्यं कमठोपमाम् । स्वार्थे ष्यञ्प्रत्ययः । अत एवौपम्यादयः चातुर्वर्ण्यव- दिति वामनः । प्रापन् प्राप्ताः । आपो लुङि 'पुषादि-' (३।११।५५) इति च्लेरङादेशः । उपमा ॥७१॥

 पद्माकारैर्योधवक्त्रैरिभानां कर्णभ्रष्टैश्चामरैरेव हंसैः ।
 सोपस्काराःप्रावहन्नस्रतोयाः स्रोतखिन्यो वीचिषूच्चैस्तरद्भिः॥७२।।