पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६२
शिशुपालवधे

 कश्चिच्छस्त्रापातमूढोSपवोढुर्लब्ध्वा भूयश्चेतनामाहवाय ।
 व्यावर्तिष्ट क्रोशतः सख्युरुच्चैस्त्यक्तश्चात्मा का च लोकानुवृत्तिः ६४

 कश्चिदिति ॥ शस्त्रापातमूढः प्रहारमूर्छितः कश्चिद्वीरश्चेतनां संज्ञां लब्ध्वा अपवोढुर्मूर्छासमये युद्धभूमेरपनेतुः सख्युमित्रस्योच्चैः क्रोशतः आगच्छागच्छे- त्याक्रोशति सति । 'षष्ठी चानादरे' (२।३।३८) इति षष्ठी । क्रोशन्तमनादृत्ये- त्यर्थः । भूयः पुनरपि आहवाय रणाय व्यावर्तिष्ट, आत्मा देहस्त्यक्तश्च । तथा हि-लोकानुवृत्तिश्च का । नैवेत्यर्थः । सुहृजनानुरोधस्तु हितानर्थिनः परिच्छेत्तुं वृथेत्यर्थः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ६४ ॥

 भिन्नोरस्कौ शत्रुणाकृष्य दूरादासन्नत्वात्कौचिदेकेषुणैव ।
 अन्योन्यावष्टम्भसामर्थ्ययोगादूर्ध्वावेव स्वर्गतावप्यभूताम् ॥६५॥

 भिन्नोरस्काविति ॥ शत्रुणा दूरादाकृष्य आसन्नत्वात्तयोरित्यर्थः । संनिकृष्ट- त्वादेकेषुणैव भिन्नोरस्कौ विदारितवक्षसौ कौचिद्वीरावन्योन्यावष्टम्भ एव सामर्थ्यं तस्य योगात्स्वभावादूर्ध्वावेव ऊर्ध्वं तिष्ठन्तावेव स्वर्गतावपि मृतावभूताम् । अपिश्चार्थः । तत्र मृतयोरूर्ध्वावस्थानासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥६५॥

 भिन्नानस्त्रैर्मोहभाजोऽभिजातान्हन्तुं लोलं वारयन्तः खवर्गम् ।
 जीवग्राहं ग्राहयामासुरन्ये योग्येनार्थः कस्य न स्याज्जनेन ॥६६॥

 भिन्नानिति ॥ अन्ये वीरा अर्भिन्नान्विदारितान् अत एव मोहभाजो मूर्छाभाजो मूर्छागतानभिजातान्कुलीनान् । 'अभिजातः स्थितौ न्याये कुलीन- प्राप्तयोरपि' इति विश्वः । हन्तुं लोलमुत्सुकं स्ववर्ग वारयन्तः जीवं गृहीत्वा जीवग्राहं ग्राहयामासुः। जीवमेव ग्राहयामासुरित्यर्थः । 'समूलाकृतजीवेषु हन्कृ- अग्रहः' (३।४।३६) इति णमुल्प्रत्ययः । कषादित्वादनुप्रयोगः । जीवग्रहणप्र- योजनमर्थान्तरन्यासेनाह-तथा हि,-योग्येन जनेन हेतुना कस्य पुंसोऽर्थः कीर्त्यादिप्रयोजनं न स्यात् । स्यादेव सर्वस्यापीत्यर्थः । अतो वीराणां रणेष्वप्य- तिपरिक्षतरक्षणमेव श्रेयः । 'नार्तं नातिपरिक्षतम्' (मनु० ७।९३) इति हनन- निषेधादिति भावः ॥ ६६ ॥

 भग्नैर्दण्डैरातपत्राणि भूमौ पर्यस्तानि प्रौढचन्द्रद्युतीनि ।
 आहाराय प्रेतराजस्य रौप्यस्थालानीव स्थापितानि स्म भान्ति ६७

 भग्नैरिति ॥ भग्नैर्दण्डैहेतुना । भग्नदण्डत्वादिति भावः । भूमौ पर्यस्तान्यु- त्तानपतितानि । प्रौढचन्द्रद्युतीनि पूर्णेन्दुप्रभाण्यातपत्राणि । श्वेतच्छत्राणी- त्यर्थः । प्रेतराजस्यान्तकस्याहाराय भोजनाय स्थापितानि विहितानि रौप्यस्था- लानि राजतभाजनानीव भान्ति स्मेत्युत्प्रेक्षा ॥ ६७ ॥

 रेजुर्भ्र्ष्टा वक्षसः कुङ्कुमाङ्का मुक्ताहाराः पार्थिवानां व्यसूनाम् ।
 हासाल्लक्ष्याः पूर्णकामस्य मन्ये मृत्योर्दन्ताः पीतरक्तासवस्य ॥६८॥