पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
प्रथमः सर्गः ।

येन । अभ्रंकषविग्रहत्वादिति भावः । 'सटा जटाकेशरयोः' इति 'तनुः काये कृशेऽल्पे च' इति विश्वः । त्वया स दैत्यः । मुग्धौ नवौ । 'मुग्धः सौम्ये नवे मूढे' इति वैजयन्ती । यो कान्तास्तनौ तयोः सङ्गेनापि भङ्गुरैः कुटिलैर्नखैरुरोविदारम् उरो विदार्य । 'परिक्लिश्यमाने च' (३।४।५५) इति णमुल्प्रत्ययः । प्रतिचस्करे हतः । किरतेः कर्मणि लिट् । 'ऋच्छत्यृृताम्' (७।४।११) इति गुणः । “हिंसायां प्रतेश्च' (६।१।१४१) इति सुडागमः । वज्रकठिनोऽपि नखैर्विदारित इति वाङ्मनसयोरगोचरमहिम्नस्ते किमसाध्यमिति भावः ॥ ४७ ॥

 अथास्य जन्मान्तरचेष्टितान्याचष्टे-

विनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशैः समं पुनः ।
स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः ॥४८॥

 विनोद मिति ॥ अथ स हिरण्यकशिपुः पुनर्भूयोऽपि त्रिदशैः समं सह । 'साकं साधं समं सह' इत्यमरः । रणेन दर्पादन्तःसाराज्जन्म यस्यास्तस्याः कण्ड्वाः भुजकण्डूतेर्विनोदमपनोदमिच्छन् । प्राग्भवनखक्षतैस्तदपनोदाभावादित्यर्थः । दिवः स्वर्गस्य क्षतं नष्टं रक्षणं रक्षा येन तत् । क्षतधुरक्षणमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः। अनेन देवसर्वस्वापहारित्वमुक्तम् । भीषयत इति भीषणः । नन्द्यादित्वात् ल्युः । 'भियो हेतुभये षुक्' (७।३।४०) इति षुक् । निकामं भीषणः । 'सुप्सुपा' इति समासः । रावणो नाम रावण इति प्रसिद्धं रक्षो बभूव । राक्षसयोनौ जात इत्यर्थः। विश्रवसोऽपत्यं पुमान् रावण इति विग्रहः। 'तस्यापत्यम्' (४।१।९२) इत्यणि कृते 'विश्रवसो विश्रवणरवणौ' इति प्रकृते रवणादेशः । पौराणिकास्तु रावयतीति व्युत्पादयन्ति । तदुक्तमुत्तरकाण्डे-'यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् । तस्मात्त्वं रावणो नाम नाम्ना वीरो भविष्यसि ॥' (१६।३८) इति । रौतेर्ण्यन्तात्कर्तरि ल्युट् । रावणरक्षसोर्नियतलिङ्गत्वाद्विशेषणविशेष्यभावेऽपि स्वलिङ्गता ॥ ४८॥

 अथास्यौद्धत्यमष्टादशश्लोक्याचष्टे-

प्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरोऽतिरागादशमं चिकर्तिषुः ।
अतर्कयद्विघ्नमिवेष्टसाहसः प्रसादमिच्छासदृशं पिनाकिनः॥४९॥

 प्रभुरिति ॥ यो रावणः भुवनत्रयस्य प्रभुः स्वामी बुभूषुः भवितुमिच्छुः । भुवः सन्नन्तादुप्रत्ययः । अतिरागादुत्साहात्, न तु फलविलम्बननिर्वेदादिति भावः दशमं शिरः चिकर्तिषुः कर्तितुं छेत्तुमिच्छुः । 'कृती छेदने' इति धातोः सन्नन्तादुप्रत्ययः । इष्टसाहसः प्रियसाहसः । अत एवेच्छासदृशमिच्छानुरूपं पिनाकिनः प्रसादं वरं विघ्नमिवातर्कयत् उत्प्रेक्षितवानिति परमसाहसिकत्वोक्तिः । इत आरभ्य श्लोकषट्केऽपि यच्छब्दस्य स रावणो नाम रक्षो बभूवेति पूर्वेणान्वयः । रङ्गराजस्तु 'न चक्रमस्याक्रमताधिकंधरम्' इति उपरिष्टादन्वय इत्याह । तदसत् । 'गुणानां

च परार्थत्वात्' इति न्यायादारुण्यादिवत्प्रत्येकं प्रधानान्वयिनां मिथः संबन्धायोगादित्यलं शाखाचङ्क्रमणेन । पुरा किल रावणः काम्ये कर्मणि पशुपतिप्रीणनाय