सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
शिशुपालवधे

नव शिरांस्यग्नौ हुत्वा दशमारम्भे संतुष्टात्तस्मात्त्रैलोक्याधिपत्यं वव्रे इति पौराणिकी कथाऽत्रानुसंधेया ॥ ४९ ॥

 अथ कैलासोत्क्षेपणवृत्तान्तमाह-

समुत्क्षिपन्यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः ।
त्रसत्तुषाराद्रिसुताससंभ्रमस्वयंग्रहाश्लेषसुखेन निष्क्रयम् ॥ ५० ॥

 समुत्क्षिपन्निति ॥ यो रावणः पृथिवीभृतां पर्वतानां वरं श्रेष्ठं कैलासं समुत्क्षिपन् । दर्पादिति शेषः । शूलिनो वरप्रदानस्य पूर्वोक्तस्य । त्रसन्त्याः शैलचलनेन बिभ्यत्यास्तुषाराद्रिसुतायाः पार्वत्याः ससंभ्रमो यः स्वयंग्रहः प्रियप्रार्थनां विना कण्ठग्रहणम् । 'सुप्सुपा' इति समासः । तेन आश्लेषः संमेलनं तेन यत्सुखं तेन । त्रैलोक्याधिपत्यसुखादुत्कृष्टेनेति भावः । निष्क्रयं प्रत्युपकारनिर्गतिं चकार । 'निष्क्रयो बुद्धियोगे स्यात्सामर्थ्ये निर्गतावपि' इति वैजयन्ती । यद्वा निष्क्रयं चकार क्रयेण व्यवहारेण याञ्चादोषदैन्यं ममार्जेत्यर्थः । अत्र सुखवरदानयोर्विनिमयात् परिवृत्तिरलंकारः ॥ ५० ॥

पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः ।
विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः ॥५१॥

 पुरीमिति ॥ यो बली बलवान् रावणो नमुचिद्विषा इन्द्रेण विगृह्य विरुध्य पुरीममरावतीमवस्कन्द अवरुरोध । नन्दनमिन्द्रवनम् , 'नन्दनं वनम्' इत्यमरः । लुनीहि चिच्छेद । 'ई हल्यघोः' (६।४।११३) इतीकारः । रत्नानि श्रेष्ठवस्तूनि मणीन् वा । 'रत्नं श्रेष्ठे मणावपि' इति विश्वः। मुषाण मुमोष । 'मुष स्तेये' । 'हलः श्नः शानज्झौ' (३।११८३) इति श्नः शानजादेशः। अमराङ्गनाः हर जहार । सर्वत्र पौनःपुन्येनेत्यर्थः। इत्थमनेन प्रकारेण अहनि च दिवा चाहर्दिवम् । अहन्यहनीत्यर्थः । 'अचतुर-' (५।४।७७) इत्यादिना सप्तम्यर्थवृत्तौ द्वन्द्वे समासान्तो निपातः । दिवः स्वर्गस्यास्वास्थ्यमुपद्रवं चक्रे । अत्रावस्कन्देत्यादौ 'क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः' (३।४।२) इत्यनुवृत्तौ 'समुच्चयेऽन्यतरस्याम्' (३।४।३) इति विकल्पेन कालसामान्ये लोट् । तस्य यथोपग्रहं सर्वतिङादेशो हिस्वौ च । प्रकरणादिना त्वर्थविशेषावसानम् । 'अतो हेः' (६।४।१०५) इति यथायोग्यं हिलुक् । पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः । अवस्कन्दनादिक्रियाविशेषाणां समुच्चयः क्रियासमभिहारः । तत्सामान्यस्य करोतेः 'समुच्चये सामान्यवचनस्य' (३।४।५) इत्यनुप्रयोगः चक्रे इति । 'अत्र तिङ्वैचित्र्यात् सौशब्दाख्यो गुणः' । 'सुपां तिङां परावृत्तिः सौशब्दम्' इति लक्षणात् । समुच्चयश्चालंकारः ॥ ५१ ॥

सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैःश्रवसः पदक्रमम् ।
अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम् ॥५२॥

पाठा०-१ 'वशी'. २०महर्निशं'.