पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्च कञ्चुकाः ।
स्वरूपशोभैकफलानि नाकिनां गणैर्यमाशङ्क्य तदादि चक्रिरे॥४५॥
पुराणीति ॥ किंच नाकिनां सुराणां गणैः यं हिरण्यकशिपुमाशङ्क्य बाधकत्वेनोप्रेक्ष्य स काल आदिर्यस्मिंस्तदादि तदाप्रभृति स्वरूपशोभैवैकं फलं मुख्यं प्रयोजनं येषां तेषां सुरादीनां तानि तथोक्तानि । प्रागीदृगसाध्यशत्रोरभावादिति भावः । 'नपुंसकमनपुंसकेन-' (१।२।६९) इत्यादिना नपुंसकैकशेषः । पुराणि दुर्गाणि प्राकारपरिखादिना अगम्यानि चक्रिरे । 'सुदुरोरधिकरणे' (वा०) इति गमेर्डः । आयुधं निशातं निशितं चक्रे इति विभक्तिविपरिणामेनान्वयः । 'शो तनूकरणे' इति धातोः क्तः । 'शाच्छोरन्यतरस्याम्' (७।४।४१) इतीत्वविकल्पात् पक्षे आत्वम् । बलानि सैन्यानि शूराणि शौर्यवन्ति चक्रिरे संपादितानि । कञ्चुका वारबाणाः । लोहवर्माणीत्यर्थः । 'कञ्चुको वारबाणोऽस्त्री' इत्यमरः । घना दुर्भेदाश्चक्रिरे । इत्थं नित्यसंनद्धा जाग्रति स्मेत्यर्थः ॥ ४५ ॥
स संचरिष्णुर्भुवनान्तरेषु यां यदृच्छयाशिश्रियदाश्रयः श्रियः ।
अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसंध्यं त्रिदशैर्दिशे नमः॥४६॥
स इति ॥ अन्येषु भुवनेषु भुवनान्तरेषु । 'सुप्सुपा' इति समासः। संचरिष्णुः संचरणशीलः। 'अलंकृञ्-' (३।२।१३६) इत्यादिना चरेरिष्णुच् । श्रियो लक्ष्म्या आश्रयः स हिरण्यकशिपुः । यदृच्छया स्वैरवृत्त्या । यदृच्छा स्वैरवृत्तिः' इत्यमरः। यां दिशमशिश्रियदगमत् । श्रयतेर्लुङ् णिश्रि-' (३।१।४८) इत्यादिना चङि द्विर्भाव इयङादेशः। मुकुटोपलेषु मौलिरत्नेषु स्खलन्तः करा येषां तैः । शिरसि बद्धाञ्जलिभिरित्यर्थः । 'उपलः प्रस्तरे रत्ने' विश्वः । तिस्रो दशा बाल्यकौमारयौवनानि, जन्मसत्तावृद्धयो वा येषां तैत्रिदशैर्देवैः । यद्वा त्रिर्दश परिमाणमेषामिति 'बहुव्रीहौ संख्येये डजबहुगणात्' (५।४७३) इति समासान्तः । तिस्रः संध्याः समाहृतास्त्रिसन्ध्यम् । तद्धितार्थोत्तरपद-' (२।१५१) इत्यादिना समाहारे द्विगुः। द्विगुरेकवचनम्' (२०४३) वा टाबन्त इति पक्षे नपुंसकत्वम् । अत्यन्तसंयोगे द्वितीया । तस्यै दिशे करैर्हस्तैः । 'नमःस्वस्ति-' (२।३।१६) इत्यादिना चतुर्थी । नमः नमस्कारोऽकारि कृतम् । कृञः कर्मणि लुङ् । 'चिण् भावकर्मणोः' (३।१।६६) इति चिण् । संध्यावन्दनेऽपि दिङ्नियमं परित्यज्य तदागमनभयात्तस्यै दिशे नमस्कारः कृत इति भावः ॥ ४६ ॥
अथ सोऽपि त्वयैव हत इत्याह-
सटाच्छटाभिन्नघनेन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया ।
स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्करे नखैः ॥४७॥
सटाच्छटेति ॥ हे नृसिंह, नरः सिंह इवेत्युपमितसमासः । ना चासौ सिंह- 'श्चेति प्रस्तावात् । सिंहस्येमां सैंहीं तनुं कायं बिभ्रता । नृसिंहावतारभाजेत्यर्थः । किंभूताम् । अतनुं विस्तीर्णाम् । अत एव सटाच्छटाभिः केशरसमूहैः भिन्ना घना मेघा पाठा०-१ 'गुणानि'. २ 'श्रियाम्'. ३ 'यद्वा' इत्यत आरभ्य 'समासान्तः'
इत्यन्तः पाठः क्वचिन्न पठ्यते.