पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५३
अष्टादशः सर्गः ।

मुखपटं यावत्तूणं नापनिन्ये नापचकार तावदन्यनागाधिरूढः प्रतिगजाधिरोहः एक एककालीनः पातो येषां तैरेकपातैर्युगपत्पातिभिरिति शीघ्रतोक्तिः । काद- म्बानां शराणाम् । 'कदम्बमार्गणशराः' इत्यमरः । पूगैार्व्रातैरसीव्यत् । चक्षुषा सह तद्वासः स्यूतवानित्यर्थः । सीव्यतेर्लङ् । अत्र चक्षुषः सीवनासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ २९ ॥

 आस्थदृष्टेराच्छदं च प्रमत्तो यन्ता यातुः प्रत्यरीभं द्विपस्य ।
 मनस्योचैर्बर्हभारेण शङ्कोरावव्राते वीक्षणे च क्षणेन ॥ ३० ॥

 आस्थदिति ॥ यन्ता प्रमत्तः सन् प्रत्यरीभमरिगजं प्रति । आभिमुख्येऽव्य- यीभावः । यातुर्गन्तुः । यातेस्तृच् । द्विपस्य दृष्टेराच्छदमावरणम् । पुंसि संज्ञायां घः । आस्थन्निरस्तवान् । 'अस्यतिवक्तिख्यातिभ्योऽङ्' (३।१।५२) इति च्लेरङा- देशः 'अस्यतेस्थुक्' (७।४।१७) इति थुगागमः । मग्नस्य मुखनिमग्नस्य शङ्कोः शल्यायुधस्य । 'वा पुंसि शल्यं शङ्कर्ना इत्यमरः । उच्चैर्बर्हभारेण पिच्छपटलेन वीक्षणे चक्षुषी क्षणेनावव्राते आवृते । वृणोतेः कर्मणि लिट् । अन्योन्यसमुच्चय- चकाराभ्यामावरणनिरासे पुनरावरणयोरेककाले संबन्धोक्तेरतिशयोक्तिः ॥ ३० ॥

 यत्नाद्रक्षन्सुस्थितत्वादनाशं निश्चित्यान्यश्चेतसा भावितेन ।
 अन्त्यावस्थाकालयोग्योपयोगं दध्रेऽभीष्टं नागमापद्धनं वा ॥३१॥

 यत्नादिति ॥ अन्यः गजारोहः भावितेनालोचितेन चेतसा सुस्थितत्वाद- नपायिदेशत्वादनाशमनपायं निश्चित्य यत्नाद्रक्षन् वञ्चकेभ्यस्त्राय(माणः)न् सन् । अन्त्यावस्थाकाले साधनान्तरकाले नाशकाले योग्योपयोगं अत एवा- भीष्टं नागं गजमापद्धनं वापद्धनमिव दध्रे अन्यतोऽपसार्य धारयामास । धरते: स्वरितेत्त्वात्कर्तरि लिट् तङ् ॥ ३१ ॥

 अन्योन्येषां पुष्करैरामृशन्तो दानोद्भेदानुच्चकैर्भुग्नवालाः ।
 उन्मूर्धानः संनिपत्यापरान्तै: प्रायुध्यन्त स्पष्टदन्तध्वनीभाः॥३२॥

 अन्योन्येषामिति ॥ इभा गजाः अन्योन्येषां परस्परेषाम् । कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्याद्वित्वम् । 'समासवच्च बहुलम्' इति विकल्पादसमासत्वपक्षे पूर्वपदस्य प्रथमैकवचनं वक्तव्यम् । उद्भिद्यन्ते एष्विति उद्भेदाः । 'अकर्तरि च कारके संज्ञायाम्' (३।३।१९) इत्यधिकरणार्थे घञ् प्रत्ययः । दानोद्भेदान्कटादिमदस्थानानि पुष्करैर्हस्ताग्रै:] । 'पुष्करं करिहस्ताग्रे' इत्यमरः । आमृशन्तो जिघ्रन्त उच्चकैरुन्नता भुग्नवालाः प्रह्वीकृतपुच्छाः । 'बाल: केशे शिशौ मूर्खे वालो वाजीभपुच्छयोः' इति विश्वः । उन्मूर्धान उन्नतमस्तकाः सन्तः स्पष्ठदन्तध्वनि यथा तथा संनिपत्यापरान्तैः सह प्रायुध्यन्त । दिवादिकस्य युध्यतेः कर्तरि लङ् । स्वभावोक्तिः ॥ ३२॥

 द्राधीयांसः संहताः स्थेमभाजश्वारूदग्रास्तीक्ष्णतामत्यजन्तः ।
 दन्ता दन्तैराहताः सामजानां भङ्गं जग्मुर्न स्वयं सामजाताः॥३३॥