पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५४
शिशुपालवधे

 द्राधीयांस इति ॥ दाधीयांसो दीर्घतराः । प्रियस्थिर- (६।४।१५७) इत्यादिना दीर्घस्य ईयसुनि द्राघादेशः । संहताः सुघटिताः अत एव स्थेमभाजः स्थैर्यभाजः । 'प्रियस्थिर-' (६।४।१५७) इत्यादिना स्थिरशब्दस्येमनिचि स्थादेशः । चारवो रम्या उदग्रा उन्नताश्च ते चारूदग्राः । विशेषणसमासः । तीक्ष्णतां नैशित्यं अत्यजन्तः सामजानां गजानां दन्ता दन्तैः प्रतिगजविषाणैराहताः सन्तो भङ्गं भेदं जग्मुः बभञ्जु: । सामजाता दन्तिनस्तु स्वयं भङ्गं पराजयं न जग्मुः। दन्तभङ्गेऽपि स्वयं न परावर्तन्त इत्यर्थः । अत्रापरावर्तित्वेन वर्ण्यतया प्रकृतत्वादुपमेयानां दन्तिनामुपमानदन्तापेक्षया अभग्नत्वेनाधिक्योक्तेर्व्यतिरेकस्तु- ल्ययोगिताया बाधक इति गमयितव्यम् ॥ ३३ ॥

 मातङ्गानां दन्तसंघट्टजन्मा हेमच्छेदच्छायचञ्चच्छिखाग्रः ।
 लग्नोऽप्यग्निश्चामरेषु प्रकामं माञ्जिष्ठेषु व्यज्यते न स्म सैन्यैः ॥३४॥

 मातङ्गानामिति ॥ मातङ्गानां दन्तिनां दन्तसंघट्टजन्मा दन्तसंघर्षोत्थः हेमच्छेदच्छायानि कनकपरागवर्णानि चञ्चन्ति चलन्ति च शिखाग्राणि ज्वाला- ग्राणि यस्य सोऽग्निः मञ्जिष्ठया ओषधिविशेषेण रक्तेषु माञ्जिष्ठेषु । 'तेन रक्तं रागात्' (४।२।१) इत्यण्प्रत्ययः । 'मञ्जिष्ठा विकसा जिङ्गी' इत्यमरः । चामरेषु लग्नोऽपि सैन्यैः प्रकामं न व्यज्यते न विविच्यते स्म । सावर्ण्यादिति भावः । अतः सामान्यालंकारः। 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् । स च विशेषणोत्थकाव्यलिङ्गसंकीर्णः ॥ ३४ ॥

 ओषामासे मत्सरोत्पातवाताश्लिष्यद्दन्तक्ष्मारुहां घर्षणोत्थैः ।
 यौगान्तैर्वा वह्निभिर्वारणानामुच्चैर्मूर्धव्योम्नि नक्षत्रमाला ॥ ३५ ॥

 ओषामासे इति ॥ मत्सरो वैरमेवोत्पातवात आकस्मिकवायुस्तेनाश्लि- ष्यतां संयुज्यमानानां दन्तानामेव क्ष्मारुहां वृक्षाणां घर्षणेनोत्था जन्म येषां तैर्वह्निभिर्योगान्तैर्वा युगान्तभवैर्वह्निभिरिव वारणानामुच्चैरुन्नतैः मूर्धा व्योमेव तस्मिन्मूर्धव्योग्नि नक्षत्रमाला हारविशेषः । सैव नक्षत्रमाला स्यात्सप्तविंशति- मौक्तिकैः' इत्यमरः । ज्योतिर्मण्डलं च ओषामासे । दग्धेत्यर्थः । 'उष दाहे' इति धातोः कर्मणि लिट् । 'उपविदजागृभ्योऽन्यतरस्याम्' (३।१।३८) इत्या- म्प्रत्ययः । लघूपधगुणः 'कृञ्चानुप्रयुज्यते लिटि' (३।१।४०) इत्यस्तेश्वानुप्रयोगः । अत्र नक्षत्रमालयोरभेदाध्यवसायेन निर्देशाद्रूपकश्लेषसंकीर्णेयमुपमा ॥ ३५ ॥

 सान्द्राम्भोदश्यामले सामजानां वृन्दे नीताः शोणितैः शोणिमानम् ।
 दन्ताः शोभामापुरम्भोनिधीनां कन्दोद्भेदा वैद्रुमा वारिणीव ३६

 सान्द्राम्भोदेति ॥ सान्द्रं च तदम्भोदश्यामलं च तस्मिन् सामजानां गजानां वृन्दे शोणितैः शोणिमानमारुण्यं नीता दन्ताः अम्भोनिधीनां वारिनिधीनां वारिणीव विद्रुमाणां प्रवालानामिमे वैद्रुमाः । 'विद्रुमः पुंसि प्रवालं पुनपुंसकम्' इत्यमरः । कन्दो मृलमिण्डः तस्योझेदाः प्ररोहा इव शोभामापुरित्युपमा ॥ ३६ ॥