पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५२
शिशुपालवधे

'उपमायां विकल्पे वा' इत्यमरः । आजौ बभ्राम । एकवीरस्य कुतो भय- मित्यर्थः ॥ २५॥

 यावच्चक्रे नाञ्जनं बोधनाय व्युत्थानज्ञो हस्तिचारी मदस्य ।
 सेनास्वानाद्दन्तिनामात्मनैव स्थूलास्तावत्प्रावहन्दानकुल्याः ॥२६॥

 यावदिति ॥ व्युत्थानं गजोत्थापनं जानातीति व्युत्थानज्ञः हस्तिना चरतीति हस्तिचारी यन्ता । मदस्य बोधनायोत्थापनायाञ्जनमुद्दीपनं कर्म यावन्न चक्रे तावत्प्रागेव । असमाप्ते विधावित्यर्थः । सेनास्वानात् । सेनाकलकलश्रवणादि- त्यर्थः । दन्तिनामात्मना स्वयमेव स्थूला महत्यो दानकुल्या मदसरितः प्रावहन्निति दन्तिनामुत्साहातिरेकोक्तिः । अञ्जनात्प्राग्दानसंबन्धोक्तेरतिशयोक्तिः ॥ २६ ॥

 कुध्यन् गन्धादन्यनागाय दूरादारोढारं धूतमूर्धावमत्य ।
 घोरारावध्वानिताशेषदिक्के विष्के नागः पर्यणंसीत्स्व एव ॥२७॥

 क्रुध्यन्निति ॥ दूराद्दूरत एव गन्धान्मदगन्धाघ्राणात् अन्यनागाय प्रतिग- जाय क्रुध्यन् । तं जिघांसुरित्यर्थः । 'क्रुधद्रुह-' (१।४।३८) इत्यादिना संप्रदा- नत्वम् । नागो धूतमूर्धा विधूतमस्तकः सन् । आरोढारं यन्तारमवमत्यावधूय घोरारावैः दारुणक्रन्दनैः ध्वानिता अशेषदिशो येन तस्मिंस्तथा उच्चैराक्रोशतीत्यर्थः । शैषिकः कप्प्रत्ययः । स्वे स्वकीय एव । स्वपुत्र एवेत्यर्थः । 'पूर्वादिभ्यो नवभ्यो वा' (७।१।१६) इति विकल्पान्न स्मिन्नादेशः । अत एव स्वे स्वपुत्रे विष्क इति श्लिष्टगत्या व्याख्याय पुत्रस्यापि ज्ञातित्वान्न सर्वनामसंज्ञेति वल्लभोक्तिः प्रामादिकी। विष्के विंशतिवर्षके डिम्भे । 'विष्को विंशतिवर्षकः' इति वैजयन्ती । पर्यणं- सीत् । तिर्यक्प्रजहारेत्यर्थः । 'तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः' इति हला- युधः । 'यमरमनमातां सक्च' (७।२।७३) इति नमेलुङि सगिडागमौ 'नेटि' (७।२।४) इति वृद्धिप्रतिषेधः ॥ २७ ॥

 प्रत्यासन्ने दन्तिनि प्रातिपक्षे यन्त्रा नागः प्रास्तवक्त्रच्छदोऽपि ।
 क्रोधाक्रान्तः क्रूरनिर्दारिताक्षः प्रेक्षांचक्रे नैव किंचिन्मदान्धः २८

 प्रत्यासन्ने इति ॥ प्रातिपक्षे प्रतिपक्षसंबन्धिनि । 'तस्येदम्' (४।३।१२०) इत्यण् । दन्तिनि गजे प्रत्यासन्ने सति यन्त्रा सादिना प्रास्तवक्त्रच्छदोऽपि निरस्तमु- खपटोऽपि क्रोधाक्रान्तः अत एव क्रूरं घोरं निर्दारिताक्षः तथापि मदान्धो नागो गजो न किंचिदेव प्रेक्षांचके । किमपि पुरोगतं प्रातिपक्षमन्यद्वा न ददर्शेत्यर्थः । आवरणान्तराभावेऽपि मदावरणस्यानपायादिति भावः । 'इजादेश्च गुरुमतो- ऽनृच्छः' (३॥१॥३६) इत्याम्प्रत्ययः । अत्रानावृतोन्मीलिताक्षस्याप्यदर्शनविरो- धस्य मदान्धेनाविरोधाद्विरोधाभासोऽलंकारः ॥ २८ ॥

 तूर्णं यावन्नापनिन्ये निषादी वासश्चक्षुर्वारणं वारणस्य ।
 तावत्पूगैरन्यनागाधिरूढः कादम्बानामेकपातैरसीव्यत् ।। २९ ॥

 तूर्णमिति ॥ निषादी यन्ता वारणस्य गजस्य चक्षुर्वारणं नेत्रावरणं वासो