पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३९
सप्तदशः सर्गः ।

दिरे । ध्वजांशुकदर्शनोत्थक्रोधहेतुकस्य शीघ्राभिपातस्य ध्वजाह्वानहेतुकत्वमु- प्रेक्ष्यते ध्रुवमिति ॥ ४९ ॥

 हरेरपि प्रति परकीयवाहिनीरधिस्यदं प्रववृतिरे चमूचराः ।
 विलम्बितुं न खलु सहा मनस्विनोविधित्सतः कलहमवेक्ष्य विद्विषः

 हरेरिति ॥ हरेरपि चमूषु चरन्तीति चमूचराः सैनिकाः । चरेष्टः । परेषा- मिमाः परकीया वाहिनीः सेनाः प्रति अधिस्यदमधिकरयं यथा तथा । 'रंहस्तरसी तु रयः स्यदः' इत्यमरः। प्रववृतिरे प्रवृत्ताः । तथा हि-मनस्विनो धीराः कलहं युद्धं विधित्सतः विधातुमिच्छतः । दधातेः सन्नन्ताल्लटः शतरि रूपम् । तान्विद्विषः शत्रूनवेक्ष्य विलम्बितुम् । 'शकधृष-' (३।४।६५) इत्या- दिना तुमुन्प्रत्ययः । सहन्त इति सहाः क्षमाः । पचाद्यच् । न खलु । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ५० ॥

 1उपाहितैर्वपुषि निवातवर्मभिः स्फुरन्मणिप्रसृतमरीचिसूचिभिः ।
 निरन्तरं नरपतयो रणाजिरे रराजिरे शरनिकराचिता इव ॥५१॥

 उपाहितैरिति ॥ रणाजिरे रणाङ्गणे नरपतयो राजानो वपुषि उपाहितैरा- मुक्तैः स्फुरन्तो मणिप्रसृता रत्ननिर्गता मरीचय एव सूचयो येषां तैः निवातव- र्मभिरच्छिन्द्रकञ्चुकैः । 'निवातो दृढसंनाहे निर्वाते चाश्रयेऽपि च' इति विश्वः । 'तनुत्रं वर्म कञ्चुकम्' इत्यमरः । निरन्तरं नीरन्ध्रं शरनिकरैराचिताः प्रोता इव रराजिरे । 'फणां च सप्तानाम्' (६।४।१२५) इति विकल्पादेत्वाभ्यासलोपा- भावः । मणिरोचिषः सादृश्याच्छरनिकरत्वोत्प्रेक्षा ॥ ५१ ॥

 अथोच्चकैर्जरठकपोतकंधरातनूरुहप्रकरविपाण्डुरद्युति ।
 वलैश्चलच्चरणविधूतमुच्चरद्धनावलीरुदचरत क्षमारजः ॥ ५२ ।।

 अथेति ॥ अथानन्तरं उच्चकैरुन्नतं जरठकपोतकंधरातनूरुहप्रकरविपाण्डुर- द्युति जीर्णपारावतकंधरारोमनिकरधूसरच्छायमित्युपमा । 'पारावतः कपोतः' इत्यमरः । बलैः सैन्यैश्चलद्भिश्वरणैर्विधूतमुद्भूतं प्रेरितं सदुच्चरदुत्पतत्क्ष- मारजो भूरेणुर्घनावलीर्घनपङ्कीरुदचरत् । प्रचक्रामेत्यर्थः । 'उदश्वरः सकर्मकात्' (१॥३॥५३) इत्यात्मनेपदम् । अस्य प्रत्युदाहरणमुच्चरदिति । अत्र भूरेणोर्मेघ- मण्डलाक्रमणासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिरुपमासंकीर्णा ॥ ५२ ॥

 विषङ्गिभिर्भृशमितरेतरं क्वचित्तुरंगमैरुपरि निरुद्धनिर्गमाः ।
 चलाचलैरनुपदमाहताः खुरैर्विबभ्रमुश्चिरमध एव धूलयः॥५३ ।।

 विषङ्गिभिरिति ॥ चलाचलैश्चटुलैः खुरैरनुपदं प्रतिपदमाहता उद्धताः भृशमितरेतरं परस्परम् । 'निरन्तरम्' इति पाठेऽभितो निरन्तरं नीरन्ध्र विषङ्गि- भिर्मिथः श्लिष्टैस्तुरङ्गमैरुपरि निरुतो निर्गमो यासां ताः धूलयः क्वचित् चिरमध

पाठा०-१ निवाततां दधदपि वर्म बिभ्रतः'. २ "भिः क्वचिदभितो निरन्तरं

तुरङ्गमैः'.