पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४०
शिशुपालवधे

एव विबभ्रमुर्नोत्पेतुरिति भावः । अत्रोद्धतानामधोभ्रमणविरोधस्योपरिनिर्गमरो- धेन विशेषणगत्या परिहारात्काव्यलिङ्गसंकीर्णो विरोधाभासोऽलंकारः ॥ ५३ ॥

 गरीयसः प्रचुरमुखस्स रागिणो रजोऽभवव्द्यवहितसत्त्वमुत्कटम् ।
 सिसृक्षतः सरसिजजन्मनो जगद्बलस्य तु क्षयमपनेतुमिच्छतः ५४

 गरीयस इति ॥ गरीयसः सर्वलोकपितामहत्वात्पूज्यतरस्य, अन्यत्र महत्त- रस्य प्रचुरमुखस्य । चतुर्मुखस्येत्यर्थः । अन्यत्र बहुप्रवाहस्य रागिणो रक्तवर्णस्य, अन्यत्र रणे रागिणोऽनुरागवतः एवंभूतस्य सरसिजजन्मनो ब्रह्मणो जगत्सिसृ- क्षतः जगस्रष्टुमिच्छतः सतः । सृजेः सन्नन्ताल्लटः शत्रादेशः । व्यवहितसत्त्वं तिरस्कृतसत्त्वगुणकं, अन्यत्र तिरोहितजन्तुकं रजो रजोगुणो रेणुश्चोत्कटमुद्रित- मभवत् । बलस्य सैन्यस्य तु जगत्क्षयमपनेतुमिच्छतः सतोऽभवत् । अत्र ब्रह्म- बलयोर्गरीयस्त्वादिसाधर्म्येऽपि रजःशब्देनैकस्य सिसृक्षोरन्यस्य संजिहीर्षोरिति व्यतिरेकः श्लेषोत्थापित इति संकरः ॥ ५४॥

 पुरा शरक्षतिजनितानि संयुगे नयन्ति नः प्रसभमसृञ्जि पङ्कताम् ।
 इति ध्रुवं 1व्यंलगिपुरात्तभीतयः खमुच्चकैरनलसखस्य केतवः ॥५५॥

 पुरेति ॥ संयुगे युद्धे सति शरक्षतिजनितानि क्षतजानि असृञ्जि रुधिराणि नोऽस्मान्प्रसभं प्रसह्य पङ्कतां पुरा नयन्ति नेष्यन्ति । यावत्पुरानिपातयोर्लट्' (३।३।४) इति भविष्यदर्थे लट् । इतीत्थमालोक्य ध्रुवमात्तभीतयः प्राप्तभयाः सन्तोऽनलसखस्याग्निमित्रस्य वायोः केतवो रेणवः । तल्लिङ्गत्वात्तस्येति भावः । उच्चकैरुन्नतं खमाकाशं व्यलगिषुः । वियदारूढा इत्यर्थः । ध्रुवमित्युत्प्रेक्षायाम् ॥५५॥

 2क्वचिल्लसद्धननिकुरम्बकर्बुरः क्वचिद्धिरण्मयकणपुञ्जपिञ्जरः ।
 क्वचिच्छरच्छशधरखण्डपाण्डुरः खुरक्षतक्षितितलरेणुरुद्ययौ ॥५६॥

 क्वचिदिति ॥ क्वचिल्लसन्धननिकुरम्बवन्नवाभ्रपटलवत्कर्बुरः शबलः । क्वचि- द्धिरण्मयकणपुञ्जपिञ्जरः कनकचूर्णराशिकपिशः । क्वचिच्छरच्छशधरखण्डपाण्डुरः खुरैः क्षतस्य क्षितितलस्य रेणुरुद्ययौ उजगाम । अत्रोपमात्रयस्य संसृष्टिः ॥ ५६ ॥

 महीयसां महति दिगन्तदन्तिनामनीकजे रजसि मुखानुषङ्गिणि ।
 विसारितामजिहत कोकिलावलीमलीमसा ज3लदमदाम्बुराजयः ५७

 महीयसामिति ॥ महति अनीकजे सेनासमुत्थे रजसि महीयसां दिगन्ता एव दन्तिनः तेषां मुखानि पुरोभागा एव मुखान्याननानि इति श्लिष्टरूपकम् । तेष्वनुषङ्गिणि लग्ने सति । कोकिलावलीवन्मलीमसा मलिना जलदा दिङ्मुखसङ्गिन एव ये मेघास्त एव मदाम्बुराजयो मदरेखाः विसारितां प्रसृमरत्वमजिहतागच्छन्त । प्राप्ता इत्यर्थः । पांशुपातस्य दन्तिनां मदहेतुत्वादिति भावः । तदुक्तं

पाठा०-१ 'व्यलसिषुः'. २ 'समुन्नमद्धन-'. ३ 'बहुल'.