पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३८
शिशुपालवधे

दुर्दर्शेत्यर्थः । असावसुरचमूश्चैद्यसेना क्षणेन च भूभृतां हरिसैनिकानां भृशं भयं करोतीति भयंकरापि । 'मेघर्तिभयेषु कृञः' (३।२।४३) इति खच्प्रत्ययः । दर्शनीयतां मनोहरतामिति विरोधः । दृष्टिविषयतां ययावित्यविरोधः । अत एव विरोधाभासोऽलंकारः ॥ ४५ ॥

 पयोमुचामभिपततां दिवि द्रुतं विपर्ययः परित इवातपस्य सः ।
 समक्रमः समविषमेष्वथ क्षणात्क्षमातलं बलजलराशिरानशे॥४६॥

 पयोमुचामिति ॥ अथासुरसेनादर्शनानन्तरं समविषमेषु निम्नोन्नतेषु सम- क्रमस्तुल्यसंचारः बलजलराशिः सैन्यसागरः दिवि व्योम्नि द्रुतमभिपततामभि- धावतां पयोमुचां संबन्धी आतपस्य विपर्ययः छायेव परितः क्षणारक्षमातलं भूतलमानशे । 'अशू व्याप्तौ', 'अत आदेः' (७/४/७०) इत्यभ्यासदीर्घः । 'अश्नोतेश्च' (७/४/७२) इति नुमागमः । उपमालंकारः ॥ ४६॥

 ममौ पुरः क्षणमिव पश्यतो महत्तनूदरस्थितभुवनत्रयस्य तत् ।
 विशालतां दधति नितान्तमायते बलं द्विषां मधुमथनस्य चक्षुषि ४७

 ममाविति ॥ पुरोऽग्रे क्षणमिव पश्यतः क्षणमात्रं विलोकयतः । इवशब्दो वाक्यालंकारे । तनौ क्षोदीयस्युदरे कुक्षौ स्थितं भुवनत्रयं यस्य तस्य मधुमथनस्य हरेः संबन्धिनि विशालतां वैपुल्यं दधति दधाने नितान्तमायते दीर्घे द्राधीयसि चक्षुषि महत् तत् द्विषां बलं ममौ ववृते । क्षणमीक्षणादेव परबले इयत्तां परि- चिच्छेदेत्यर्थः । क्षोदीयस्यपि कुक्षौ भुवनत्रयं परिच्छिदतः हरेरतिमहति चक्षुषि अल्पबलपरिच्छेदः कियानिति भावः । अत्र भुवनत्रयापेक्षया आधारस्य कुक्षेर- ल्पत्वाच्चक्षुरपेक्षया आधेयस्य बलस्याल्पत्वाच्चाधिकालंकारौ संकीर्यते ॥ ४७ ॥

 भृशस्विदः पुलकविकासिमूर्तयो रसाधिके मनसि निविष्टसाहसाः।
 मुखे युधः सपदि रतेरिवाभवन्ससंभ्रमाः क्षितिपचमूवधूगणाः ४८

 भृशेति ॥ क्षितिपचम्वो वध्व इवेत्युपमितसमासः । रतेरिवेति लिङ्गात् । तासां गणाः युधो मुखे युद्धारम्भे रतेर्मुखे रत्यारम्भ इव सपदि भृशं स्विद्य- न्तीति भृशस्विदः । क्लिप् । पुलकविकासिमूर्तयो रोमाञ्चोदञ्चितगात्राः रसः वीरः शृङ्गारश्च तेनाधिके निर्भरे मनसि निविष्टसाहसाः प्रविष्टधार्ष्टयाः ससंभ्रमाः ससत्वराश्चाभवन् । यादृशी वधूनां सुरतरसकर्मण्युत्कण्ठा तादृशी चमूनां समर- कर्मणीत्युपमार्थः । तेनैतासां समरसुरतयोः समरसत्वं व्यज्यते ॥ ४० ॥

 ध्वजांशुकैर्धुवमनुकूलमारुतप्रसारितैः प्रसभकृतोपहूतयः ।
 यदूनभि द्रुततरमुद्यतायुधाः क्रुधा परं रयमरयः प्रपेदिरे ॥४९॥

 ध्वजांशुकैरिति ॥ अस्यः चैद्यपक्षाः अनुकूलमारुतेन प्रसारितैर्ध्वजांशुकैर्ध्रुवं प्रसभेन बलात्कारेण कृतोपहूतयः । कृताह्वाना इवेत्यर्थः । यदूनभि यादवान्प्रति द्रुततरमुद्यतायुधा उत्क्षिप्तायुधाः सन्तः क्रुधा क्रोधेन परमधिकं रयं त्वरां प्रपे-