पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३७
सप्तदशः सर्गः ।

पिताऽग्रदिशि धूमितत्वोत्प्रेक्षेति संकरः । अत्राहुः-'अङ्गारिणी दिग्र्विविप्रयुक्ता यस्यां रविस्तिष्ठति सा प्रदीप्ता । प्रधूमिता यास्यति यां दिनेशः शेषाः प्रशस्ताः शुभदाश्च ताः स्युः ॥' इति ॥ ४१ ॥

 मनस्विनामुदितगुरुप्रतिश्रुतिः श्रुतस्तथा न निजमृदङ्गनिःस्वनः ।
 यथा पुरःसमरसमुद्यतद्विषद्बलानकध्वनिरुदकर्षयन्मनः॥४२॥

 मनस्विनामिति ॥ उदिता उत्पन्ना गुरुगंभीरा प्रतिश्रुतिः प्रतिध्वनिर्यस्य सः निजमृदङ्गनिःस्वनः स्वसेनातूर्यघोषः श्रुतः सन् तथा मनस्विनां मनो नोद- कर्षयन्नाचकर्ष । कृषिरयं स्वार्थण्यन्तः । यथा पुरोऽग्रे समरसमुद्यते समरोद्युक्ते द्विषद्धले शत्रुसैन्ये ये आनकास्तेषां ध्वनिरुदकर्षयत् । एतेनैषां वीरस्थायी महोत्साह उक्तः । अत्र भयंकरस्यापि परसैन्यघोषस्योत्साहजनकत्वं महावीरेषु न विरुध्यत इति विरोधाभासोऽलंकारः । भीहेतौ सत्यपि भयानुत्पत्तेर्विशेषो- क्तिविरुद्धकार्योत्पत्तेर्विषमभेदश्चेति संकरः ॥ ४२ ॥

 यथा यथा पटहरवः समीपतामुपागमत्स हरिवराग्रतःसरः ।
 तथा तथा हृषितवपुर्मुदाकुला द्विषां चमूरजनि जनीव चेतसा ॥४३॥

 यथा यथेति ॥ हरिर्वरो जामातेव हरिवरः । 'वरो जामातृवर्ययोः' इति विश्वः । तस्याग्रतः सरतीत्यग्रतःसरोऽग्रेसरः । 'पुरोऽग्रतोऽग्रेषु सर्तेः' (३।२।१८) इति टप्रत्ययः। स पूर्वोक्तः पटहरवो यथा यथा यावद्यावत् समीपतामासन्नतामुपा- गमत् तथा तथा तावत्तावत् द्विषतां चमूर्जनीव वधूरिव । जनी सीमन्तिनी वधूः' इति विश्वः । चेतसा मुदाकुला आनन्दाविला हृषितवपू रोमाञ्चिताङ्गी । 'हृषेर्लो- मसु' (७।२।२९) इतीडागमः । अजनि जाता । जनेः कर्तरि लुङ् 'दीपजन- (३।१।६१) इत्यादिना चिण् प्रत्ययः । वधूवरसमागमवत्प्रतिद्वन्द्विसमागमो महोत्साहवर्धनो वीरसेनाया इत्युपमार्थः। तेन सैन्ययोरन्योन्यशब्दश्रवणकारिणी प्रत्यासत्तिरासीदिति व्यज्यते ॥ ४३ ॥

 प्रसारिणी सपदि नभस्तले ततः समीरणभ्रमितपरागरूषिता ।
 व्यभाव्यत प्रलयजकालिकाकृतिर्विदूरतः प्रतिबलकेतनावलिः ४४

 प्रसारिणीति ॥ ततः श्रवणानन्तरं सपद्यविलम्बेन नभस्तले प्रसारिणी व्याप्ता समीरणेन वायुना भ्रमितेन परागेण रूषिता रूक्षीकृता अत एव प्रलय- जायाः कल्पान्तप्रादुर्भूतायाः कालिकाया महाकाल्या आकृतिरिवाकृतिर्यस्याः मा प्रतिबले प्रतिपक्षसैन्ये केतनावलिर्ध्वजपङ्क्तिर्विदूरतो दूरादलक्ष्यत । एतावता प्रत्यासत्तिरासीदित्यर्थः । उपमालंकारः ॥ ४४ ॥

 क्षणेन च प्रतिमुखतिग्मदीधितिप्रतिप्रभास्फुरदसिदुःखदर्शना ।
 भयंकरा भृशमपि दर्शनीयतां ययावसावसुरचमूश्च भूभृताम् ॥४५॥

 क्षणेनेति ॥ प्रतिमुखस्याभिमुखस्य तिग्मरश्मेरुष्णांशोः प्रतिप्रभाभिः प्रतिफलितदीप्तिभिः स्फुरद्भिर्देदीप्यमानैरसिभिः खङ्गैर्दुःखं दुष्करं दर्शन यस्याः सा।