पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३४
शिशुपालवधे

प्रतिष्ठते स प्रतस्थे । 'समवप्रविभ्यः स्थः' (१॥३।२२) इत्यात्मनेपदम् । 'लट् स्मे' (३।२।११८) इति भूते लट् । तद्धितगता श्रौती पूर्णोपमा ॥ २९ ॥

 निरन्तरस्थगितदिगन्तरं ततः समुच्चलद्धलमवलोकयञ्जनः ।
 विकौतुकः प्रकृतमहाप्लवेऽभवद्विशृङ्खलं प्रचलितसिन्धुवारिणि ॥३०

 निरन्तरेति ॥ ततो रथप्रस्थानानन्तरं निरन्तरं नीरन्ध्रं स्थगितान्याच्छा- दितानि दिगन्तराणि येन तत् । समुच्चलत् प्रतिष्ठमानं तद्वलं सैन्यमवलोकयन् जनो लोकः प्रकृतः प्रक्रान्तो महाप्लवो महापूरो जगत्संप्लवरूपो येन तस्मिन् विशृङ्खलमप्रतिघातं प्रचलितं क्षुभितं यत्सिन्धोरब्धेर्वारि तस्मिन्विकौतुको निवृ- त्तकौतूहलोऽभवत् । कल्पान्तक्षुभितवारिधेर्वारिवच्च तद्वलं सकलजगत्संहारश- ङ्कयालक्ष्यतेत्यर्थः । अत्रान्यदर्शनादन्यदिक्षानिवृत्तेर्बलवारिधिवारिणोरेकत्वाक्षेपे बाधात्सादृश्याक्षेपाद्वाक्यभेदेन प्रतिबिम्बकरणान्निदर्शनालंकारः ॥ ३० ॥

 बर्बृहिरे गजपतयो महानकाः प्रदध्वनुर्जयतुरगा जिहेषिरे ।
 1असंभवद्गिरिवरगह्वरैरभूत्तदा रवैर्दलित इव स्व आश्रयः ॥३१॥

 बबृंहिर इति ॥ गजपतयो बबृंहिरे बबृंहुः । बृंहणं चक्रुरित्यर्थः । 'बृहि वृद्धौ शब्दे च' आत्मनेपदं चिन्त्यम् । अत एव भट्टमल्लः-'हेषते हेषतेऽश्वानां हस्तिनां बृंहतीति च' इति । महानकाः प्रध्वनुः । जयशीलास्तुरगा जयतुरगा जिहेषिरे । हेषां चक्रुरित्यर्थः । 'हेषृ ह्रेषृ अव्यक्ते शब्दे' । तदा तस्मिन्काले असं- भवन्त्यन्तर्धातुमपर्याप्नुवन्ति गिरिवरगह्वराणि येषां तैः गिरिवरगह्वरेषु अमाद्भिः। अवर्तमानैरित्यर्थः । रवैर्बृंहणादिघोषैः । स्व आश्रयः स्वसमवायिकारणमाकाशो दलित इव विदारित इवाभूदित्युत्प्रेक्षा तया तेषामतितीव्रत्वं व्यज्यते ॥ ३१ ॥

 अनारतं रसति जयाय दुन्दुभौ मधुद्विषः फलदलघुप्रतिस्वनैः ।
 विनिष्पतन्मृगपतिभिर्गुहामुखैर्गताः परां मुदमहसन्निवाद्रयः॥३२॥

 अनारतमिति ॥ मधुद्विषो हरेः दुन्दुभौ रणभेर्यां जयायानारतमश्रान्तं रसति ध्वनति सति फलन्तः संक्रामन्तोऽलघवो महान्तः प्रतिस्वनाः प्रतिध्व- नयो येषु तैः विनिष्पतन्तः क्षोभान्निर्गच्छन्तः मृगपतयः सिंहा येभ्यस्तैर्गुहा- भिरेव मुखैरद्रयः परां मुदं गताः सन्तः अहसन्निव । सिंहानां धावल्याद्ध्वनि- योगाच्च हसनोत्प्रेक्षा ॥ ३२ ॥

 जडीकृतश्रवणपथे दिवौकसा चमूरवे विशति सुराद्रिकंदराः ।
 अनर्थकैरजनि विदग्धकामिनीरतान्तरक्वणितविलासकौशलैः॥३३॥

 जडीकृतेति ॥ दिवमोको येषां तेषां दिवौकसां देवानाम् । कंदरान्तर्गतानामित्यर्थः । जडीकृतश्रवणपथे बधिरीकृतश्रोत्रमार्गे । सापेक्षत्वेऽपि गमकत्वात्समासः । चमूरवे सेनाघोषे सुराद्रिकंदराः मेरुगह्वराणि विशति सति । विदग्धकामिनीनां प्रौढाङ्गनानां रतान्तरे सुरतमध्ये कणितविलासाः कूजितसंपदस्तासु

पाठा०-१ 'असंभवद्भुतगिरिकन्दरैः'.