पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३३
सप्तदशः सर्गः ।

धिकंधरमधिकण्ठम् । विभक्त्यर्थेऽव्ययीभावः । ललम्बिरे । लना इत्यर्थः । श्लेषः श्लिष्टोपमा वा मतभेदात् ॥ २५ ॥

 मनोहरैः प्रकृतिमनोरमाकृतिर्भयप्रदैः समितिषु भीमदर्शनः ।
 सदैवतैः सततमथानपायिभिर्निजाङ्गवन्मुरजिदसेव्यतायुधैः ॥२६॥

 मनोहरैरिति ॥ अथ प्रकृतिमनोरमाकृतिः स्वभावसुन्दरमूर्तिः समितिषु युद्धेषु भीमं दर्शनं यस्य स भीमदर्शनो मुरजिद्धरिः मनोहरैः प्रकृतिमनोहरैः समितिषु भयप्रदैः सदैवतैः अधिदेवतायुक्तैः सततमनपायिभिरायुधैः शार्ङ्गा- दिभिर्निजाङ्गवत्पृथगवस्थितैः शरीरैरिवेत्युप्रेक्षा । असेव्यत सेवितः ॥ २६ ॥

 अवारितं गतमुभयेषु भूरिशः क्षमाभृतामथ कटकान्तरेष्वपि ।
 मुहुर्युधि क्षतसुरशत्रुशोणितप्लुतप्रधिं रथमधिरोहति स्म सः ॥२७॥

 अवारितमिति ॥ अथायुधसंनिधानानन्तरं स हरिरुभयेषु द्वयेषु । द्विवि- धेष्वित्यर्थः । क्षमाभृतां राज्ञां, गिरीणां च कटकान्तरेष्वपि शिबिराभ्यन्तरेषु, नितम्बावकाशेषु च भूरिशो बहुशः अवारितमप्रतिहतं गतं प्रस्थितं मुहुरस- कृद्युधि क्षतानां सुरशत्रूणामसुराणां शोणितैः प्लुताः सिक्ताः प्रधयो नेमयो यस्य तम् । 'चक्रधारा प्रधिर्नेमिः' इति हलायुधः । रथमधिरोहति स्म आरुरोह ॥ २७ ॥

 उपेत्य च वनगुरुपक्षमारुतं दिवस्त्विषा कपिशितदूरदिङ्मुखः ।
 प्रकम्पितस्थिरतरयष्टि तत्क्षणं पतत्पतिः पदमधिकेतनं दधौ ॥२८॥

 उपेत्येति ॥ किंचेति चार्थः । पतत्पतिरण्डजमण्डलेश्वरः । “पतत्पत्ररथा- ण्डजाः' इत्यमरः । त्विषा कान्त्या कपिशितानि कपिशीकृतानि दूराणि दिङ्मु- खानि येन सः । स्वनेन गुरुर्महान्पक्षमारुतो यस्मिन्कर्मणि तत्तथा दिवः स्वर्गा- दुपेत्यागत्य तत्क्षणं तस्मिन्क्षणे प्रकम्पिता स्थिरतरा निश्चला यष्टिरावास- स्तम्भो यस्मिंस्तत्तथा अधिकेतनं केतने । विभक्त्यर्थेऽव्ययीभावः । पदं दधौ निहितवान् ॥ २८॥

 1गभीरताविजितमृदङ्गनादया स्वनश्रिया हतरिपुहंसहर्षया ।
 प्रमोदयन्नथ मुखरान्कलापिनः प्रतिष्ठते नवधनवद्रथः स्म सः॥२९॥

 गभीरतेति ॥ अथ गरुडागमनानन्तरं स रथो नवघनवत् नवघनेन नवाम्बु- देन तुल्यम् । 'तेन तुल्यम्-' (५।१।११५) इति वतिप्रत्ययः । गभीरतया गाम्भीर्येण विजितो मृदङ्गनादो यया तया हतो रिपुहंसानां हंसानामिव रिपूर्णां हर्षो यया तया स्वनश्रिया ध्वनिसंपदा मुखरान्कूजतः कलापिनो मयूरान्प्रमोदयन्

पाठा०-१ 'गभीरया'.


शिशु० ३७