पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३२
शिशुपालवधे

 दुरुद्वहाः क्षणमपरैस्तदन्तरे रणश्रवादुपचयमाशु विभ्रति ।
 महीभुजां महिमभृतां न संममुर्मुदोऽन्तरा वपुषि बहिश्च कञ्चुकाः २२

 दुरुद्वहा इति ॥ महिमभृतामैश्वर्यवतां महीभुजां राज्ञां संबन्धिनी रणश्रवाद्युद्धश्रवणादाशु शीघ्रमुपचयं वृद्धिं बिभ्रति बिभ्राणे वपुषि अपरैरन्यैः क्षणं क्षणमपि दुरुद्वहा दुर्भराः मुदः संतोषाः अन्तरा अन्तराले न संममुः । बहिः कञ्जुकाश्च न संममुः न मान्ति स्म । नावर्तन्तेत्यर्थः । पूर्वत्र आधेयाधि- क्यादुत्तरत्राधाराधिक्यादिति विवेकः । अत्र मुदां कञ्चुकानां च प्रकृतानामेव विशेषणसाम्यादौपम्यगतायां केवलकृतास्पदा तुल्ययोगिता ॥ २२ ॥

 सकल्पनं द्विरदगणं वरूथिनस्तुरङ्गिणो जयनयुजश्च वाजिनः ।
 त्वरायुजः स्वयमपि कुर्वतो नृपाः पुनःपुनस्तदधिकृतानतत्वरन् २३

 सकल्पनमिति ॥ द्विरदगणं सह कल्पनया सकल्पनं यथोचितसंनाहस- हितम् । 'कल्पना सज्जना समे' इत्यमरः । वरूथो रथगुप्तिरेषामस्तीति वरू- थिनो रथान् । 'रथगुप्तिर्वरूथो ना' इत्यमरः । तुरङ्गिणोऽश्वयुक्तान् वाजिनोऽश्वान् जयनयुजः पल्ययनादिसंयुक्तान् । संपदादिभ्यः क्लिप् । 'जयनं स्यात्तुरङ्गादिसं- नाहे विजयेऽपि च' इति विश्वः । स्वयं त्वरायुजः त्वरायुक्तान् स्वतः कुर्वतोऽपि । स्वत एव त्वरया कुर्वाणानपीत्यर्थः । तदधिकृतान्हस्त्यादिषु नियुक्तपुरुषान्नृपाः पुनः पुनरतत्वरत्वरयन्ति स्म । तेषां तथा रणौत्सुक्यादिति भावः । त्वरेणौ चङि 'अत्स्मृदृत्वरप्रथम्रदस्तृस्पशाम्' (७/४।९५) इत्यभ्यासस्याकारः ॥ २३ ॥

 युधे परैः सह दृढबद्धकक्षया कलक्वणन्मधुपकुलोपगीतया ।
 अदीयत द्विपघटया सवारिभिः करोदरैः स्वयमथ दानमक्षयम् २४

 युध इति ॥ अथ परैः सह युधे युद्धाय दृढबद्धा कक्षा मध्यबन्धनं यस्या- स्तया । 'कक्षा बृहतिकायां स्यात्काञ्च्यां मध्येभबन्धने' इति विश्वः । अन्यत्र दृढोद्योगायेत्यर्थः । कलं क्वणता मधुपकुलेनालिगणेनोपगीतया बन्दिमागधस्तुतया चेति गम्यते । द्विपघटया कर्त्र्या स्वयं सवारिभिः सोदकैः करोदरैः पुष्कराग्रैः पाणितलाग्रैश्चाक्षयमपरिमितं दानं मदः अदीयत, दानं द्रव्यं चादीयत दत्तम् । अत्र प्रस्तुतगजघटाविशेषणसाम्येनाप्रस्तुतदानकर्तृप्रतीतेः समासोक्तिरलंकारः ॥ २४ ॥

 सुमेखलाः सिततरदन्तचारवः समुल्लसत्तनुपरिधानसंपदः ।
 रणैषिणां पुलकभृतोऽधिकंधरं ललम्बिरे सदसिलताः प्रिया इव २५

 सुमेखला इति ॥ शोभना मेखला बन्धनसूत्राणि कायश्च यासां ताः सुमेखलाः । मेखला खड्गबन्धे स्यात्काञ्चीशैलनितम्बयोः' इति विश्वः । सिततरैर्दन्तैर्दन्तमयत्सरुभिर्दशनैश्च चारवः उल्लसन्त्यः तनवः सूक्ष्माः परिधानसंपदः कोशसंपदो वस्त्रसंपदश्च यासां ताः पुलकभृतः छायाभृत: रोमाञ्चधारिप्यश्च सदसिलताः चारुखड्गवल्लयः प्रिया इव रणैषिणां रणाकाङ्क्षिणां कंधरास्व-