समाकुले सदसि तथापि विक्रियां मनोऽगमन्न मुरभिदः परोदितः।
घनाम्बुभिर्बहुलितनिम्नगाजलैजलं न हि व्रजति विकारमम्बुधेः१८
समाकुल इति ॥ परोदितैः शत्रुवाक्यैः सदसि आस्थाने तथा समाकुले क्षुभितेऽपि मुरभिदो हरेर्मनो विक्रियां क्षोभं नागमत् । तथा हि-बहुलितानि बहुलीकृतानि क्षोभितानि निम्नगाजलानि यैस्तर्घनाम्बुभिर्मेघोदकैरम्बुधेर्जलं विकारं न व्रजति । यथा वर्षोदकैनद्यः क्षुभ्यन्ति न समुद्रस्तद्वदिति भावः । दृष्टान्तालंकारः॥१८॥
परानमी यदपवदन्त आत्मनः स्तुवन्ति च स्थितिरसतामसाविति ।
निनाय नो विकृतिमविस्मितः स्मितं मुखं शेरच्छशधरमुग्धमुद्धवः॥
परानिति ॥ अमी खलाः परानन्यानपवदन्ते निन्दन्ति । 'अपाद्वदः' (१॥३॥ ७३) इत्यात्मनेपदम् । आत्मनः स्वान् स्तुवन्ति चेति यत् असावसतां खलानां स्थितिः प्रकृतिरिति । इति मत्वेत्यर्थः । गम्यमानार्थत्वादप्रयोगः । अन्यथा पौनरुक्त्यमित्यालंकारिकाः। विस्मितो न भवतीत्यविस्मितो दूतप्रलापैर्न विस्मयं न गतः उद्धवः । स्मितं स्मेरम् । उभयत्र कर्तरि क्तः । अत एव शरच्छशधरमुग्धं शरदिन्दुसुन्दरमित्युपमा । मुखं विकृतिं न निनाय न प्रापयामास । न हि महतां निन्दा स्तुतिर्वा विकारकारणमिति भावः ॥ १९॥
निराकृते यदुभिरिति प्रकोपिभिः स्पशे शनैर्गतवति तत्र विद्विषाम् ।
मुरद्विषः स्वनितभयानकानकं बलं क्षणादथ समनह्यताजये ॥२०॥
निराकृत इति ॥ तत्र सदसि इतीत्थं प्रकोपिभिरतिक्रुद्धैर्यदुभिः विद्विषां स्पशे चरे । 'अपसर्पश्चरः स्पशः' इत्यमरः । निराकृते धिक्कृते शनैर्गतवति गच्छति सति । सागसोऽपि दूतस्यावध्यत्वादिति भावः । अथ दूतगमनानन्तरं स्वनितेन ध्वनिना भयानका भयंकरा आनकाः पटहा यस्मिंस्तन्मुरद्विषो बलं क्षणादाजये युद्धाय समनह्यत संनद्धम् ॥ २० ॥
मुहुः प्रतिस्खलितपरायुधा युधि स्थवीयसीरचलनितम्बनिर्भराः ।
अदंशयन्नरहितशौर्यदंशनास्तनूरयं नय इति वृष्णिभूभृतः॥२१॥
मुहुरिति ॥ वृष्णिभूभृतो यादवनरेन्द्राः मुहुरसकृद्युधि प्रतिस्खलितपरायुधाः भग्नप्रतिपक्षायुधाः स्थवीयसीः स्थूलतराः । पराक्रमानुरूपप्रकर्षवतीरित्यर्थः । 'स्थूलदूर-' (६।४।१५६) इत्यादिना पूर्वस्य गुणलोपौ । अचलनितम्बनिर्भरा अद्रिकटकनिबिडाः । अन्तःसारवतीरित्यर्थः । अरहितमव्यक्तं शौर्यमेव दंशनं वर्म यासां तास्तनूर्देहान् अयं नय इति वर्मधारणं नीतिरिति हेतोः न तु भयादिति भावः । अदंशयन्नवर्मयन् । दंशेरनुदात्तेत्वात्परस्मैपदं चिन्त्यमित्याहुः । अत एव भट्टमल्लः-'संवर्मयति संनह्यत्यात्मने सज्जतीत्यमी । संदंशते दंशयते संनाहे पदपञ्चकम् ॥' इति । केचित्तु चुरादिषूभयपदिषु पठन्ति । अत्र साभि प्रायविशेषणत्वात्परिकरालंकारः ॥ २१ ॥
पाठा०-१ 'दधत्'. २ 'स्मेरं दधत् .