'वर्णादनुदात्तात्तोपधात्तो नः' (१९३९) इति विकल्पान्ङीष् तकारस्य च नकारः । तनुं वपुर्दधत्प्रसेनजिन्नाम राजा गैरिकारुणो धातुरक्तो गज इवाभूत् । तद्वदलक्ष्यतेत्यर्थः ॥ १३॥
सकुङ्कुमैरविरलमम्बुबिन्दुभिर्गवेषणः परिणतदाडिमारुणैः ।
स मत्सरस्फुटितवपुर्विनिःसृतैर्बभौ चिरं निचित इवासृजां लवैः १४
सकुङ्कुमैरिति ॥ स प्रसिद्धो गवेषणो नाम राजा सकुङ्कुमैः सर्वाङ्गीणकश्मीरजलेपैरित्यर्थः । अत एव परिणतदाडिमारुणैः परिपक्वदाडिमबीजरक्तैरम्बुबिन्दुभिः । क्रोधसात्त्विकैः स्वेदबिन्दुभिरित्यर्थः । मत्सरेणान्तःसंभृतेनात्युत्कटवैरेण स्फुटितान्निभिन्नाद्वपुषो विनिःसृतैरसृजां लवैरसृग्बिन्दुभिरविरलं निरन्तरं निचितो व्याप्त इव चिरं बभौ । उत्प्रेक्षा ॥ १४ ॥
ससंभ्रमं चरणतलाभिताडनस्फुटन्महीविवरवितीर्णवर्त्मभिः ।
खेः करैरनुचिततापितोरगं प्रकाशतां शिनिरनयद्रसातलम् ॥१५॥
ससंभ्रममिति ॥ शिनिः सात्यकेः पितामहः ससंभ्रमं ससत्वरं चरणतलाभिताडनेन पादतलाभिघातेन स्फुटन्त्या दलन्त्या मह्या विवरैश्छिद्रैर्वितीर्णवर्त्मभिर्दत्तमार्गः । तत्प्रसरणैरित्यर्थः । रवेः करैरनुचितं पूर्वमपरिचितमिदं यथा तथा तापिताः संतापं गमिता उरगा यस्मिंस्तत् रसातलं प्रकाशतां प्रकटत्वमनयत् । अत्र महीरविकरोरगरसातलानां क्रमेण स्फुटनान्तःप्रवेशतापप्रकाशनैरसंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । पादाहननैरमानुषीं तीव्रतां व्रजति स्मेति ध्वनिः ॥१५॥
प्रतिक्षणं विधुवति शारणे शिरः शिखिद्युतः कनककिरीटरश्मयः।
अशङ्कितं युधमधुना विशन्त्वमी क्षमापतीनिति निरराजयन्निव १६
प्रतीति ॥ शारणे नाम राज्ञि प्रतिक्षणं शिरो विधुवति क्रोधात्कम्पयति सति । धुवस्तौदादिकाल्लटः शत्रादेशः 'अचि श्रुधातु-' (६।४।७७) इत्यादिनोवङदेशः। शिखिवद्योतन्त इति शिखिद्युतोऽग्निप्रभाः । क्विप् । कनककिरीटरश्मयो नीराजनकर्तारः अमी भूपाः अधुना अशङ्कितं निःशङ्कं युधमाजिम् । 'सामित्याजिसमिद्युधः' इत्यमरः । विशन्त्विति क्षमापतीन्निरराजयन्निव नीराजयन्ति स्मेवेत्युत्प्रेक्षा । 'नीराजनात्स्याद्विजय' इत्यागमः ॥ १६ ॥
दधौ चलत्पृथुरसनं विवक्षया विदारितं विततबृहद्भुजालतः ।
विदूरथः प्रतिभयमासकंदरं चलत्फणाधरमिव कोटरं तरुः॥१७॥
दधाविति ॥ वितते विस्तृते बृहत्यौ भुजे लते इव यस्य स विदूरथो नाम राजा । विवक्षया किमपि वक्तुमिच्छया विदारितं व्यात्तं अत एव चलन्ती पृथुमहती रसना जिह्वा यस्मिंस्तम् । 'रसज्ञा रसना जिह्वा' इत्यमरः । प्रतिभयं 'भयंकरमास्यं कंदर इवास्यकंदरस्तम् । 'दरी तु कंदरो वा स्त्री' इत्यमरः । तरुः चलन्फणाधरः फणी यस्मिंस्तत्कोटरमिव । 'निष्कुहः कोटरं वा ना' इत्यमरः । दधौ । श्रौती पूर्णोपमा ॥ १७ ॥
पाठा०-१ 'सारणे'.