पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२९
सप्तदशः सर्गः ।

मभ्यस्तं दाहधाष्ट्यं दहनसाहसं यस्यास्तया तृतीयया दृशा सशरममुं मन्मर्थ ध्रुवं पुनर्वीक्षितुं न व्यसहत न शक्तः । 'परिनिविभ्यः सेवसितसयसिवुसहसुदः स्तुस्वञ्जाम्' (८३३७०) 'सिवादीनां वाड्व्यवायेऽपि' (८।३।७१) इति विकल्पान्ने पत्वम् । अनयोत्प्रेक्षया रुद्रस्यापि भीषणः किमुतान्येषामिति वस्तु व्यज्यते ॥ १० ॥

 विचिन्तयन्नुपनतमाहवं रसादुरः स्फुरत्तनुरुहमग्रपाणिना ।
 परामृशत्कठिनकठोरकामिनीकुचस्थलप्रमुषितचन्दनं पृथुः ॥११॥

 विचिन्तयन्निति ॥ पृथु म राजा उपनतं प्राप्तमाहवं युद्धं रसागणरागा. द्विचिन्तयन् कदेति ध्यायन् कठिनेन कर्कशेन कठोरेण प्रवृद्धेन कामिन्याः कुच- स्थलेन प्रमुषितमपहृतं चन्दनं यस्य तत् । एतेनास्य सुरतसमरयोः समरसत्वं व्यज्यते । अत एव स्फुरत्तनुरुहमुदञ्चत्पुलकमुरः अग्रश्चासौ पाणिश्चेति समाना- धिकरणसमासः । अत एव 'हस्ताग्राग्रहस्तादयो गुणगुणिनोभेंदाभेदयो रिति वामनः । तेनाप्रपाणिना पाणितलेन परामृशत्परामृष्टवान् । रणकण्डूलपाणि- त्वादिति भावः । अत एव यदन्येषां रोषजनकं दूतवाक्यं तदागामिरणकारण- तयास्य हर्षहेतुरिति श्लोकार्थः ॥११॥

  विलचितस्थितिमभिवीक्ष्य रूक्षया
   रिपोर्गिरा गुरुमपि गान्दिनीसुतम् ।
  जनस्तदा युगपरिवर्तवायुभि-
   विवर्तिता गिरिपतयः प्रतीयिरे ॥ १२ ॥

 विलचितेति ॥ गुरुं स्वभावतो धीरमपि सन्तं रूक्षया परुषया रिपोर्गिरा दूतवाचा विलचितस्थितिमुल्लचितमर्यादं क्रोधादुन्मर्यादम् । विकुर्वाणमित्यर्थः । गान्दिनीसुतमक्रूरमभिवीक्ष्य जनैस्तदा अक्रूरविक्रियालोकनसमये युगपरिवर्तवा- युभिः कल्पान्तवातैर्विवर्तिताः स्थानादुच्चालिता गिरिपतयोऽद्रयः प्रतीयिरे विश- श्वसिरे । अक्रूरविक्रियादर्शनागिरिचलनमपि युगान्ते संभावितमेवेति जनैर्विश्वस्त- मित्यर्थः । 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः । प्रतिपूर्वादिणः कर्मणि अत्र कल्पान्ते गिरिचलनविक्रियाकल्पेयमरविक्रियेति वाक्यभेदेन सादृश्याक्षेपान्निदर्शनालंकारः । तेनाङ्करस्य लोकोत्तरं धैर्य नैसर्गिकमिति वस्तु व्यज्यते ॥ १२॥

 विवर्तयन्मदकलुषीकृते दृशौ कराहतक्षितिकृतभैरवारवः ।
 क्रुधा दधत्तनुमतिलोहिनीमभूत्प्रसेनजिद्गज इव गैरिकारुणः॥१३॥

 विवर्तयन्निति ॥ मदो मद्यविकारो दानं च । 'मदो मद्येभदानयोः' इति विश्वन कलुषीकृत आकुलीकृते दृशौ विवर्तयन्पूर्णयन्करेण पाणिना शुण्डा. दण्डेन चाहतायां क्षितौ भूमौ कृतो भैरवारवो भयंकरध्वनिर्येन सः । क्रोधा- त्सध्वानं करेण क्षितिमाघ्नन्नित्यर्थः । क्रुधा क्रोधेन अतिलोहिनीमतिलोहिताम् ।

लिट् ।