पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२८
शिशुपालवधे

मुप्रत्ययः । अस्विदत्स्विद्यति स्म । स्विदेर्लुङि पुषादित्वादङ्प्रत्ययः । अत्रोष्मविशेषणगत्या स्वेदहेतुत्वाकाव्यलिङ्गम् , वीजनेऽपि स्वेद इति विरोधः । वीचिरयं चुरादिष्वन्वेषणीयः ॥ ६ ॥

 प्रजापतिक्रतुनिधनार्थमुत्थितं व्यतर्कयज्ज्वरमिव रौद्रमुद्धतम् ।
 समुद्यतं सपदि वधाय विद्विषामतिक्रुधं निषधमनौषधं जनः ॥७॥

 प्रजेति ॥ जनः सपदि विद्विषां वधाय समुद्यतमुद्युक्तं उद्धतं तीव्रम् अत एवातिक्रुधमधिकक्रोधि । अनौषधम् । अप्रतीकारमित्यर्थः । निषधं निषधाख्यं नृपं प्रजापतिक्रतुनिधनार्थं दक्षाध्वरध्वंसनार्थमुत्थितं रुद्रस्येमं रौद्रं रुद्रसंबन्धिनं ज्वरमिव वीरभद्ररूपिणमित्यर्थः । व्यतर्कयत् । अत्र राज्ञोऽपि प्रजापतित्वा- त्पुनः प्रजापतिक्रतुनिधनार्थमुत्थितः साक्षाद्दक्षाध्वरविध्वंसी वीरभद्र एवायमित्युत्प्रेक्षितवानित्यर्थः । उपमा ॥ ७ ॥

 परस्परं परिकुपितस्य पिंषतः क्षतोर्मिकाकनकपरागपङ्किलम् ।
 करद्वयं सपदि सुधन्वनो निजैरनारतस्रुतिभिरधाव्यताम्बुभिः॥८॥

 परस्परमिति ॥ परिकुपितस्यातिक्रुद्धस्य अत एव परस्परं पिंषतः पीडयतः। करद्वयमित्यर्थः । सपदि सुधन्वनो राज्ञः क्षतानां पिष्टानामूर्मिकाणामङ्गुलीयकानां कनकपरागेण सुवर्णचूर्णेन पङ्किलं पङ्कवत् । पिच्छादित्वान्मत्वर्थीय इलप्रत्ययः । 'अङ्गुलीयकमूर्मिका' इत्यमरः । करद्वयं पाणियुग्मं निजैः करद्वयजन्यैरेवानारतस्रुतिभिरविरतस्रावैरम्बुभिः । स्वेदोदकैरधाव्यताक्षाल्यत । गतिशुद्ध्योः' इति धातोः कर्मणि लङ् । अनोर्मिकाणां करद्वयस्य च परागत्वपङ्किलत्वासंबन्धेऽपि संबन्धोक्तेरतिशयोक्ती तयोः संकरः॥८॥

 निरायतामनलशिखोज्वलां ज्वलन्नखप्रभाकृतपरिवेषसंपदम् ।
 अविभ्रमद्भ्रमदनलोल्मुकाकृति प्रदेशिनी जगदिव दग्धुमाहुकिः ९

 निरिति ॥ आहुकिर्नाम राजा निरायतां प्रसारितां अनलशिखाग्निज्वाला तद्वदुज्ज्वलां ज्वलन्तीभिर्नखप्रभाभिः कृता परिवेषसंपत्परिधिशोभा यस्यास्ताम् । अत एव भ्रमतोऽनलोल्युकस्यालातस्येवाकृतिः संस्थानं यस्यास्ताम् । 'अङ्गारोऽलातमुल्मुकम्' इत्यमरः । प्रदेशिनी जगद्दग्धुमिवेत्युत्प्रेक्षा । अविभ्रमद्रमयति स्म । भ्रमेणी चङ् । दूतसंतर्जनाय भ्राम्यमाणनखप्रभापटला तर्जनी जगद्दाहाय भ्राम्यमाणाऽलातचक्रवदलक्ष्यतेत्यर्थः ॥ ९॥

 दुरीक्षतामभजत मन्मथस्तथा यथा पुरा परिचितदाहधार्यया ।
 ध्रुवं पुरः सशरममुं तृतीयया हरोऽपि न व्यसहत वीक्षितुं दृशा १०

 दुरीक्षतामिति ॥ मन्मथः प्रद्युम्नावतारः कामस्तथा दुरीक्षतां दुर्दिनत्वम् । ईक्षतेः खलन्तात्तल्प्रत्ययः । अभजत । यथा हरोऽपि पुरा पूर्वजन्मनि परिचित-

पाठा०-१ 'तेनैव तच्छब्द इति विशेषोक्तिश्चेति संकरः। वीजनमित्यजेर्वीयस्य रूपकमिति केचित् । तस्माद्वीजिरन्य एवायं चुरादिषु गवेष्टव्यः'. "धावु