पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३५
सप्तदशः सर्गः ।

यानि कौशलानि तैरनर्थकैरजनि जातम् । प्रेयसां बाधिर्यादिति भावः । अत्र श्रोत्रजाड्यस्य विशेषणगत्या क्वणितानर्थक्यहेतुत्वात्काव्यलिङ्गम् । तदुपजीवितेन क्वणितानामानर्थक्यासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्त्युत्पादनयोरङ्गाङ्गिभावेन संकरः॥३३॥

 अरातिभिर्युधि सहयुध्वनो हताञ्जिघृक्षवः श्रुतरणतूर्यनिःस्वनाः ।
 अकुर्वत प्रथमसमागमोचितं चिरोज्झितं सुरगणिकाः प्रसाधनम् ३४

 अरातिभिरिति ॥ सह युध्यन्त इति तान्सहयुध्वनः । 'सहे च' (३।२। ९६) इति क्वनिप् । अत एवारातिभिर्युधि हतान् जिघृक्षवो ग्रहीतुमिच्छवः स्वयं- वरणकामाः । ग्रहेः सन्नन्तादुप्रत्ययः । सुरगणिका अप्सरसः श्रुतरणतूर्यनिःस्वनाः सत्यश्चिरोज्झितम् । प्रायेण प्रवीरसंवादाभावादिति भावः । प्रथमसमागमोचि- तम् । अतिमोहनमित्यर्थः । प्राथम्यं च पुंसामिदं प्रथमत्वादिति भावः । प्रसाध. नमकुर्वत । परिष्कृतवत्य इत्यर्थः । 'प्रतिकर्म प्रसाधनम्' इत्यमरः । अत्र स्वयंवर- णतूर्यश्रवणयोर्विशेषणगत्या प्रसाधनहेतुत्वात्काव्यलिङ्गम् ॥ ३४ ॥

 प्रचोदिताः परिचितयन्तृकर्मभिर्निपादिभिर्विदितयताङ्कुशक्रियैः ।
 गजाः सकृत्करतललोलनालिकाहता मुहुः प्रणदितघण्टमाययुः ३५

 प्रचोदिता इति ॥ परिचितं यन्तृकर्म सादिकृत्यं यैस्तैः । स्वभ्यस्तगजशास्त्रै- रित्यर्थः । अत एव विदिते यताङ्कुशक्रिये यतयाताख्ये पादाङ्कुशकर्मणी यैस्तैः । 'पादकर्म यतं प्रोक्तं यातमङ्कुशवारणम्' इति हलायुधः । निषादिभिर्यन्तृभिः प्रचोदिताः प्रेरिता गजाः सकृदेकवारमेव करतललोलाभिः 1पाणितलचलिता- भिर्नालिकाभिरन्तर्नाडिकाभिः हतास्ताडिताः तथापि मुहुः प्रणदिता असकृद्ध्वनन्ती घण्टा यस्मिन्कर्मणि तत्तथा आययुः प्रस्थातुमागताः । स्वभावोक्तिः ॥ ३५ ॥

 सविक्रमक्रमणचलैरितस्ततः प्रकीर्णकैः क्षिपत इव क्षिते रजः।
 व्यरंसिपुर्न खलु जनस्य दृष्टयस्तुरंगमादभिनव2भाण्डभारिणः॥३६

 सविक्रमेति ॥ सविक्रमेण साङ्गिविन्यासविशेषेण क्रमणेन गमनेन चलैः प्रकीर्णकैश्चामरैः । 'चामरं तु प्रकीर्णकम्' इत्यमरः । क्षिते रजः स्वखुरोद्धतमित- स्ततः क्षिपतो निरस्यत इव स्थितादित्युप्रेक्षा । अभिनव2भाण्डभारिणः प्रत्यग्रा- भरणधारिणः । 'स्याद्भाण्डमश्वाभरणे' इत्यमरः । तुरंगमात्तुरंगमेभ्यः । जाता- वेकवचनम् । 'जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्' (वा०) इत्यपादानत्वम् । जनस्य दृष्टयो न व्यरंसिषुर्न विरताः खलु । रमेलुंङि 'व्याङ्परिभ्यो रमः' (१॥३॥ ८३) इति परस्मैपदं 'यमरमनमातां सक्च' (७।२।७३) इति सगिडागमौ । इटि 'नेटि' (७।२।४) इति वृद्धिप्रतिषेधः ॥ ३६ ॥

 अथ त्रिभिर्विशेषकेणाह-

 चलाङ्गुलीकिसलयमुद्धतैः करैरनृत्यत स्फुटकृतकर्णतालया ।
 मदोदकद्रवकटभित्तिसङ्गिभिः कलस्वरं मधुपगणैरगीयत ॥३७॥

पाठा०-१ 'कन्दराघाताच्चलिताभिः'. २ भाण्डहारिणः'.