द्वेस्तयप् तस्य 'द्वित्रिभ्याम्-' (५।२।४३) इत्यनेनायजादेशः 'प्रथमचरम-' (१।१।३३) इत्यादिना जसि विभाषया सर्वनामसंज्ञा । भूयांसो बहुतराः क्वचिदप्यस्खलन्तः । अप्रतिहतप्रसरा इत्यर्थः । कामं तुङ्गत्वं दधति यद्यपि दधत्येव । 'यद्यपीत्यवधारणे' इति केशवः । तथापीति शेषः । सलिलनिधेः समुद्रस्य कल्लोला महोर्मयः । अथोर्मिषु । महत्सूल्लोलकल्लोलौ' इत्यमरः । पारं तीरमवाप्य शीर्यन्ते विलीयन्ते । शीर्यतेर्दैवादिकाकर्तरि लट् । तदीया गुणमहोर्मयस्तु पारमवाप्यापि न शीर्यन्ते । अत्र गुणमहोर्मीणां भूयस्त्वादिसाधर्म्यण गुरुत्वेन समुद्रस्याधिक्याव्यतिरेकः । अनेन राज्ञोऽपि समुद्रादाधिक्यं व्यज्यते । प्रहर्षिणी वृत्तम् ॥ ८२ ॥
अथ युग्मेनाह-
लोकालोकव्याहतं धर्मरश्मे
शालीनं वा धाम नालं प्रसर्तुम् ।
लोकस्याग्रे पश्यतो धृष्टमाशु
क्रामत्युच्चैर्भूभृतो यस्य तेजः॥ ८३ ॥
लोकालोकेत्यादि ॥ लोक्यते आलोक्यते च पार्थान्तरेणेति लोकालोकः । 'लोकालोकश्चक्रवालः' इत्यमरः । विशेषणसमासः । तेन व्याहतं निरुद्धप्रसारं लोकस्यालोकेन चक्षुःप्रकाशेन व्याहतमित्यपि स्फुरति । अत एव शालीनमधष्टता । लज्जया भग्नधार्ष्ट्यमिवेत्यर्थः । 'शालीनकौपीने अदृष्टाकार्ययोः' (५।२।२०) इति निपातः । इवार्थे वाशब्दः तद्वदुत्प्रेक्षा । धर्मरश्मेर्धाम तेजः पश्यतो लोकस्याग्रे उच्चैर्भूभृतः पर्वतान् राज्ञश्च प्रसर्तुं व्याप्तुं नालं न समर्थम् । लोकालोकव्याप्तस्य लोकाग्रे संचारत्वादित्यर्थः । यस्य राज्ञस्तु तेजः पश्यतो लोकस्याग्रत एव पृष्टं केनाप्यव्याहतत्वात्प्रगल्भं सत् उच्चैर्भूभृतो राज्ञः पर्वतांश्च कामति व्यानोति । अत्राप्रतिहतप्रतापत्वेन राज्ञः सूर्यादाधिक्याव्यतिरेकः स च द्वयोर्लोकालोकयोर्द्वयानां भूभृतामभेदाध्यवसायाच्छेषमूलातिशयोक्त्युत्थापितया शालीनत्वोप्रेक्षया संकीर्यते । शालिनी वृत्तमेतत् ॥ ८३ ॥
विच्छित्तिर्नवचन्दनेन वपुषो भिन्नोऽधरोऽलक्तकै-
रच्छाच्छे पतिताञ्जने च नयने श्रोण्योऽलसन्मेखलाः ।
प्राप्तो मौक्तिकहारमुन्नतकुचाभोगस्तदीयद्विषा-
मित्थं नित्यविभूषणा युवतयः संपत्सु चापत्स्वपि॥८४॥
विच्छित्तिरिति ॥ वपुषो नवचन्दनेन विच्छित्तिर्वियोग आपदि, अन्यत्र चन्दनालेपनमिति यावत् । अधरोष्ठोऽलक्तकै क्षारागैभिन्नो वियुक्तः, अन्यत्र युक्तः । नयने च पतिताञ्जने गलितकज्जले अत एवाच्छाच्छे अच्छप्रकारे । 'प्रकारे गुणवचनस्य' (८1१२) इति द्विर्भावः 'कर्मधारयवत्-' (११) इति
पाठा०-१ 'भङ्गुरत्वेन'.