पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२६
शिशुपालवधे

सुपो लुक् । अन्यत्र अच्छाच्छे नयने पतिताञ्जने प्राप्तीञ्जने । श्रोण्यो नितम्बाः लसन्मेखला न भवन्तीत्यलसन्मेखलाः निर्मेखला इत्यर्थः । अन्यत्र लसन्मेखला इति पदच्छेदः । उन्नतः कुचाभोगः कुचविस्तारो मौक्तिकानां हारं हरणं प्राप्तः । अन्यत्र मुक्तादाम प्राप्तः । इत्थमुक्तरीत्या तदीयद्विषां युवतयः संपत्सु च आपस्वपि नित्यविभूषणाः नित्यविगलितभूषणाः अन्यत्र भूषणयुक्ताः । अत्रापत्संपदोः प्रकृताप्रकृतयोः युवतिविशेषणद्वारा वर्णनाच्छेषः । शार्दूलविक्रीडितं वृत्तम् । लक्षणमुक्तम् ॥ ८४॥

 सत्यमीदृशस्ते राजा ततः किमित्याशक्य तर्हि तत्त्वमाकर्णयेत्याह--

 विनिहत्य भवन्तमूर्जितश्रीयुधि सद्यः शिशुपालतां यथार्थाम् ।
 रुदतां भवदङ्गनागणानां करुणान्तःकरणः करिष्यतेऽसौ॥८५॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के
दूतसंवादो नाम षोडशः सर्गः ॥ १६ ॥

 विनिहत्येति ॥ ऊर्जितश्रीरधिकैश्वर्योऽसौ राजा युधि भवन्तं सद्यो विनिहत्य हत्वा रुदतां क्रन्दतां भवेदङ्गनागणानां करुणान्तःकरणः कृपाविष्टचित्तः सन् शिशुपालतां यथार्थां करिष्यते । अङ्गनागणान्प्रति तच्छिशुपालनेन निजां शिशुपालसंज्ञामन्वर्थां करिष्यतीत्यर्थः । अत्र रोदनकरुणापदार्थयोर्विशेषणगत्या क्रमात्करुणाशिशुपालनहेतुकत्वात्काव्यलिङ्गयोः संकरः । औपच्छन्दसिकं वृत्तम् ॥ ८५ ॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवधकाव्यव्याख्यायां
सर्वंकषाख्यायां षोडशः सर्गः ॥१६॥


सप्तदशः सर्गः।

 इतीरिते वचसि वचस्विनामुना युगक्षयक्षुभितमरुद्गरीयसि ।
 प्रचुक्षुभे सपदि तदम्बुराशिना समं महाप्रलयसमुद्यतं सदः ॥१॥

 इतीति ॥ इतीत्थममुना वचस्त्रिना वाग्मिना । 'मनस्विना' इति पाठे मनस्विना धीरेण दूतेन युगक्षये कल्पान्ते क्षुभित उद्धतो मरुत्तद्वद्गरीयसि वचसि ईरिते सति । तदम्बुराशिना युगक्षयवर्धिना समं तुल्यं यथा तथा सदो हरेरास्थानं महाप्रलये सर्वसंहारे समुद्यतमुद्युक्तं सत् सपदि प्रचुक्षुभे प्रचुकोप । कल्पोद्धतमहामारुतेन महार्णव इव तद्वचनेन तत्सदः क्षुभितमासीदित्यर्थः । उपमा । रुचिरा वृत्तम् । 'चतुर्ग्रहैरिह रुचिरा जभस्जगा' इति लक्षणात् ॥१॥

 अथाष्टादशभिः सभाक्षोभं वर्णयति-

 सरागया स्रुतघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया ।
 मुहुर्मुहुर्दशनविखण्डितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे ॥२॥