पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२४
शिशुपालवधे

न्धकाश्च यादवभेदास्तानेव द्रुमानतिमात्रं दववद्दवाग्निवत् । 'दवदावौ वनारण्यवह्नी' इत्यमरः । दहन्नपि अवनीमकृष्णामश्यामां करिष्यति इति यत् इदमतिचित्रम् । विरुद्धमित्यर्थः । कृष्णरहितामित्यविरोधः । अत एव विरोधाभासोऽलंकारः । कुकुरान्धकैः सह कृष्णं हनिष्यतीति श्लेषार्थः ॥ ७९ ॥

 अथ युग्मेनाह-

 परितः प्रमिताक्षरापि सर्वं विषयं व्याप्तवती गता प्रतिष्ठाम् ।
 न खलु प्रतिहन्यते कुतश्चित्परिभाषेव गरीयसी यदाज्ञा ॥८॥

 परित इति ॥ प्रकर्षण मिताक्षरापि एकत्र मितभाषित्वादन्यत्र तु सूत्रत्वाचाल्पाक्षरापि सर्व विषयं राष्ट्रकार्य, प्रदेशं च परितो व्याप्तवती । सर्वत्र प्रवृत्तेत्यर्थः । प्रतिष्ठा प्रामाण्यं स्थितिं गता गरीयसी भूयिष्टार्था यदाज्ञा यस्य राज्ञः शासनं परिभाषा अनियमनिवारको न्यायविशेषः सेव कुतश्चित्कुत्रापि न प्रतिहन्यते खलु न बाध्यते हि । परिभाषा ह्येकदेशे स्थित्वा सर्वशास्त्रमभिज्व- लयति दीपवदिति भाष्यकारः । 'इको गुणवृद्धी' (१॥१॥३) इत्यादिका परिभाषा । 'सिचि वृद्धिः-' (७।२।१) इत्यादिविषयः । उपमालंकारः । औपच्छन्दसिकं वृत्तम् ॥ ८॥

 यामूढवानूढवराहमूर्तिर्मुहूर्तमादौ पुरुषः पुराणः ।
 तेनोह्यते सांप्रतमक्षतैव क्षतारिणा सम्यगसौ पुनर्भूः॥८१॥

 यामिति ॥ यां भुवमादौ पूर्वं पुराणः पुरुषो विष्णुः ऊढवराहमूर्तितवराहशरीरः, स च नतु स्वरूपेणेति भावः । मुहूर्त क्षणमात्रमूढवान् धृतवान् क्षतारिणा संहृतसकुलविपक्षेण अत एवैनां पुनस्तेन राज्ञा । अविकृतेनेति भावः । अक्षतैव विपक्षरेनुपद्रुतैवासौ भूः सांप्रतमद्यापि न तु मुहूर्तमिति भावः । सम्यक् यथाशास्त्रमुह्यते धार्यते । वहेः कर्मणि लट् 'वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । अत्र राज्ञो विष्णोराधिक्यकथनाव्यतिरेकः । अत्र ध्वनिः । कश्चिद्वृद्धः स चोढवराहमूर्तिर्यामविकृतिमादौ प्रथमं मुहूर्तमूढवान्परिणीतवानिति भावः । अत एव अक्षता पूर्वेण अक्षतयोनिका । अत एवासौ भूर्वोढुः क्षतारिणा । शौर्यादिगुणाढ्येनेत्यर्थः । तेन केनचिद्युना सांप्रतं पुनरुह्यते पुनः परिणीयते । 'सा चेदक्षतयोनिः स्यात्पुनःसंस्कारमर्हति' ( ) इति स्मरणादिति सा पुनर्भूरुच्यते इति योज्यम् । 'पुनर्भूदिधिषूरूढा द्विस्तस्या दिधिषुः पतिः' इत्यमरः । अत्राभिधायाः प्रकृतार्थ एव नियन्त्रणादप्रकृतार्थप्रतीतेनिरेव ॥ ८१ ॥

  भूयांसः क्वचिदपि काममस्खलन्त-
   स्तुङ्गत्वं दधति च यद्यपि द्वयेऽपि ।
  कल्लोलाः सलिलनिधेरवाप्य पारं
   शीर्यन्ते न गुणमहोर्मयस्तदीयाः ॥ ८२ ॥

 भूयांस इति ॥ द्वयेऽपि समुद्रोर्मयो गुणोर्मयश्चेति द्वितया अप्यूर्मय इति ।

पाठा०-१ 'प्राप्तवती'. २ 'अनुपद्रुतैव सती वराहोद्धरणे तु हिरण्याक्षादिभिदंष्ट्रया

च क्षतेति भावः । असौ'.