पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२३
षोडशः सर्गः ।

इति पाठे तत्र जात इत्यर्थे 'प्रावृषष्ठक्' (४।३।२६) इति ठक् प्रत्ययः । ठस्येकः । सरितामुदकस्य पूरस्तद्रुमैरिव भूभृतां राज्ञां गणैः साधनैः क्रीडति । 'महतः कुकुर-' (१६७९) इत्यागामिश्लोके स महीपतिरित्यनेनास्य संबन्धः ॥ ७५ ॥

 अथ विशेषकमाह-

 अलघूपङ्क्तिशालिनीः परितो रुद्धनिरन्तराम्बराः ।
 अधिरूढनितम्बभूमयो न विमुश्चन्ति चिराय मेखलाः ॥७६ ॥

 अलध्वित्यादि ॥ यस्यारिस्त्रियः संपद्यनुभूतमापद्यप्यनुभवन्तीति वक्ष्यति तत्प्रकारेमेवाह । अधिरूढनितम्बभूमय उन्नतश्रोणिभागाः अलघुभिरुपलानां मणीनां, पाषाणानां च पङ्तिभिः शालन्त इति तच्छालिनीः । 'उपलौ मणिपाषाणौ' इति विश्वः । परितो रुद्धमावृतं निरन्तरं सान्द्रं संनिहितं च अम्बरं वस्त्रमाकाशं च याभिस्ता अधिरूढनितम्बभूमीः आक्रान्तश्रोणिभागाः प्राप्तकटकभागाश्चेति विभक्तिविपरिणामः । मेखला रशनाः पर्वतमध्यभूमीश्च चिराय न विमुञ्चन्ति । अत्र संपदादिविषयत्वेनोभयेषामपि मेखलादीनां वर्ण्यत्वेन प्रकृतत्वात्केवलप्रकृतगोचरः श्लेषः ॥ ७६ ॥

 कटकानि भजन्ति चारुभिर्नवमुक्ताफलभूषणैर्भुजैः ।
 नियतं दधते च चित्रकैरवियोगं पृथुगण्डशैलतः ॥ ७७ ।।

 कटकानीति ॥ किंच नवमुक्ताफलानि नूतनमौक्तिकानि भूषणानि येषां तैश्चारुभिः भुजैः कटकानि वलयानि भजन्ति, अन्यत्र नवमुक्तान्यचिरत्यक्तानि अफलानि वैधव्यान्निष्फलान्याभरणानि यैस्तैर्भुजैरुपलक्षिताः कटकानि तटानि भजन्ति । किंचेति चार्थः । पृथुगण्डशैलतः पृथुगण्डस्थलेषु चित्रकैः पत्ररचनाभिर्नियतमवियोगं संपर्क दधते, अन्यत्र च्युतस्थूलोपलेषु चित्रकैर्मृगविशेषैः सह वासं दधते । अत्रापि प्रकृतगोचरः श्लेषः ॥ ७७ ॥

 इति यस्य ससंपदः पुरा यदवापुर्भननेष्वरिस्त्रियः।
 स्फुटमेव समस्तमापदा तदिदानीमवनीध्रमूर्धसु ॥ ७८ ॥

        (विशेषकम् ।)

 इतीति ॥ यस्यारिस्त्रियः पुरा पूर्वं ससंपदः सश्रीकाः भवनेषु सदनेषु यदवापुर्मेखलादिकमनुबभूवुः । समस्तमशेषं तदिदानीमापदा अवनीध्रमूर्धसु शैलशृङ्गेषु इतीत्थं स्फुटमेवावापुः । न ह्यस्य वैरिणां जीविताशेति भावः । अस्याप्युत्तरश्लोकेनान्वयः ॥ ७० ॥

 महतः कुकुरान्धकद्रुमानतिमात्रं दववद्दहन्नपि ।
 अतिचित्रमिदं महीपतिर्यदकृष्णामवनीं करिष्यति ॥ ७९ ॥

 महत इति ॥ यत्तदोनित्यसंबन्धात् । स महीपतिर्महतोऽधिकान् कुकुराश्चा-