पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२२
शिशुपालवधे

यामभिषङ्गाभिलाषयोः' इति विश्वः । अत्र हरः खण्डेन्दुरुचिः, राजा पूर्णेन्दुरुचिरिति व्यतिरेकः । स च रुच्योरभेदाश्रयादिति श्लेषमूलामेदातिशयोक्त्या संकीर्णः ॥ ७१ ॥  अथ कलापकमाह-

 नयति द्रुतमुद्धतिश्रितः प्रसभं भङ्गमभङ्गरोदयः ।
 गमयत्यवनीतलस्फुरद्भुजशाखं भृशमन्यमुन्नतिम् ॥ ७२ ॥

 नयतीति ॥ यः तटद्रुमैः सरितामुदकस्य पूर एव भूभृतां गणैः क्रीडतीति चतुर्थे वक्ष्यति । तं क्रीडाप्रकारं त्रिभिर्वर्णयति । अभङ्गुरोदयः स्थिरवृद्धिः य उद्धतिश्रित औद्धत्यभाजः । अनम्रानिति यावत् । श्रयतेः विप् । नृपान् द्रुमांश्चेत्यर्थः । द्रुतं शीघ्रं प्रसभं प्रसह्य भङ्गं नयति । अवनीतले स्फुरन्त्यौ भुजौ शाखे इव भुजशाखे यस्य तम् । भुजौ प्रसार्य भुवि प्रणिपतितमित्यर्थः । अन्यं नृपं, द्रुमं च वेतसादिकं भृशमुन्नतिं गमयति ॥ ७२ ॥

 अधिगम्य च रन्ध्रमन्तरा जनयन्मण्डलभेदमन्यतः ।
 खनति क्षतसंहति क्षणादपि मूलानि महान्ति कस्यचित् ॥७३॥

 अधिगम्येति ॥ किंचेति चार्थः । अन्तरा मण्डलमध्ये, आलवालमध्ये च रन्ध्रमवकाशं शुषिरं चाधिगम्य । अन्यतः मण्डलस्यामात्यादिचक्रस्य भेदमुपजापं जनयन् , अन्यत्र मण्डलस्याधारदेशस्य भेदं विदारणं कुर्वन्नित्यर्थः । क्षता संहतिरैकमत्यं, मूलानामाश्लेषश्च यस्मिन्कर्मणि तद्यथा तथा क्षणात्कस्यचिद्राज्ञः, दुमस्य च महान्ति मूलानि मुख्याञ्जनानपि खनति तापयति, अन्यत्रादीनपि खनत्यवदारयति ॥ ७३ ॥

 घनपत्रभृतोऽनुगामिनस्तरसाकृष्य करोति कांश्चन ।
 दृढमप्यपरं प्रतिष्ठितं प्रतिकूलं नितरां निरस्यति ॥ ७४ ॥

 घनेति ॥ धनानि सान्द्राणि पत्राणि वाहनानि, पर्णानि च बिभ्रतीति घनपत्रभृतः पत्रभृतः कांश्चन नृपान् द्रुमांश्च तरसा बलेन, वेगेन च । 'तरसी बलरंहसी' इति विश्वः । आकृष्यानुगामिनोऽनुचरान् करोति । दृढं यथा तथा प्रतिष्ठितं प्रतिष्टां गतमपि । प्रतिकूलं प्रातिकूल्यभाजमपरं नृपं, द्रुमं च नितरां निरस्यति उत्पाट्यान्यतः क्षिपति । द्रुमपक्षे प्रतिकूलं कूले क्षिपतीति चार्थः ॥ ७ ॥

 इति पूर इवोदकस्य यः सरितां प्रावृषिजस्तटद्रुमैः ।
 वचनापि महानखण्डितप्रसरः क्रीडति भूभृतां गणैः ॥७५ ।।

        (कलापकम् ।)

 इतीति ॥ इतीत्थं वचनाप्यखण्डितप्रसरः । सर्वत्राखण्डितप्रवृत्तिरित्यर्थः । महान् यः शिशुपालः प्रावृषि जातः प्रावृषिजः । 'सप्तम्यां जनेः' (३।२।९७) इति डप्रत्ययः । 'प्रावृदशरत्कालदिवां जे' (६।३।१५) इत्यलुक् । 'प्रावृषिकः'

पाठा०-१'अन्ततः'.