पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२१
षोडशः सर्गः ।

खं चरणं कुरुते । निधत्त इत्यर्थः । अनम्रान् सद्यो नमयति नम्रानवतीति तात्पर्यम् ॥ ६८॥

 खभुजद्वयकेवलायुधश्चतुरङ्गामपहाय वाहिनीम् ।
 बहुशः सह शक्रदन्तिना स चतुर्दन्तमगच्छदाहवम् ॥ ६९ ॥

 स्वेति॥ स चैद्यश्चत्वार्यङ्गानि हस्त्यादीनि यस्यास्तां चतुरङ्गा वाहिनी सेनामपहाय स्वभुजद्वयं केवलमेकमायुधं यस्य सः सन् शक्रदन्तिना ऐरावतेन सह । चत्वारो दन्ता यस्मिंस्तं चतुर्दन्तम् । आहवं रणं बहुशोऽगच्छत् । चतुर्दन्तेन शक्रदन्तिना दोर्द्वयेन योद्धं चैद्यं विना कोऽन्यः शक्त इति भावः । दन्तिनोराहवश्चतुर्दन्त इत्युक्तं नतु मनुष्यदन्तिनोरिति विरोधः, स च शक्रदन्तिनेति परिहृतः, तस्य चतुर्दन्तत्वादिति विरोधाभासः॥ ६९ ॥

 अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया ।
 युवयोरिदमेव भिद्यते यदुपेन्द्रस्त्वमतीन्द्र एव सः॥ ७० ॥

 अविचालितेति ॥ अविचालितं परैरपर्यासितं अत एव चारु शोभनं चक्रं सुदर्शनं, राष्ट्रं च ययोस्तयोः । 'चक्र राष्ट्ररथाङ्गयोः' इति विश्वः । श्रिया कमलया, संपदा चानुरागादुपगूढयोराश्लिष्टयोर्युवयोस्तव तस्य च । 'त्यदादीनि सर्वैर्नित्यम्' (१।२।७२) इत्येकशेषः । इदमेव भिद्यते विशेष्यते । कर्मकर्तरि लट् । किं तदित्यत्राह-त्वमिन्द्रमुपगत उपेन्द्र इन्द्रानुजः। तदनुचर इति यावत् । स तु इन्द्रमतिक्रान्तः अतीन्द्रः । इन्द्रविजयीति यावत् । इदमेव भिद्यते इति संबन्धः । इन्द्रकिङ्करेन्द्रजयिनोः का साम्यकथेति भावः । अत्रोपमानात्कृष्णादुपमेयस्य चैद्यस्याधिक्याद्भेदप्राधान्यसाधोक्तेर्व्यतिरेकालंकारः ॥ ७० ॥  किंच त्वत्तोऽप्यधिको राजेत्यवाच्योऽयमर्थः यदीश्वरादप्यधिक इत्याह-

 भृतभूतिरहीनभोगभाग्विजितानेकपुरोऽपि विद्विषाम् ।
 रुचिमिन्दुदले करोत्यजः परिपूर्णेन्दुरुचिर्महीपतिः ॥ ७१ ॥

 भृतेति ॥ भृता भूतिर्भस्म, संपच्च येन स भृतभूतिः । 'भूतिर्भस्मनि संपदि' इत्यमरः । अहीनां भोगिनामीनोऽहीनः शेषः तस्य भोगं कायं भजतीत्यहीनभोगभाक् । शेषभूषण इत्यर्थः । अन्यत्र अहीनमन्यूनं भोगं सुखानुभवं भजतीत्यहीनभोगभाक् । 'भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः' इत्यमरः । विद्विषां विजितानेकपुरः । विजितानेकविद्विदपुर इत्यर्थः । एकत्र त्रिपुरविजयादन्यत्र शत्रुनगरविजयाच्चेति भावः । सापेक्षत्वेऽपि गमकत्वात्समासः । एवंभूतोऽप्यजो हरः । 'अजा विष्णुहरच्छागाः' इत्यमरः । इन्दुदले चन्द्रखण्डे विषये रुचिमभिलाषं करोति । इन्दुदले या रुचिः शोभा तां करोति दधातीति चार्थः । सामान्यशब्देन विशेषलक्षणा । महीपतिस्तु परिपूर्णेन्दो रुचिरिव रुचिः शोभा यस्य सः तस्मिन् रुचिरभिलाषो यस्येति च परिपूर्णेन्दुरुचिः । 'रुचिर्मयूखे शोभा

पाठा०-१ 'न वोत्सिञ्चतीति'.


शिशु० ३६