पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२०
शिशुपालवधे

 दधतोऽसुलभक्षयागमास्तनुमेकान्तरताममानुषीम् ।
 भुवि संप्रति न प्रतिष्ठिताः सदृशा यस्य सुरैररातयः॥६५॥

 दधत इति ॥ असुलभक्षयागमाः दुर्लभगृहप्राप्तयः, अन्यत्रामरत्वाद्दुर्लभनाशयोगाः । 'निलयापचयौ क्षयौ' इत्यमरः । एकान्तरतां भयाद्विजनस्थाने निरताममानुषीं कार्यमालिन्यादिना पिशाचादिवत्प्रतीयमानाम्, अन्यत्रैकान्तरतां नियतसुरतां नित्यभोगाममानुषीं दिव्यां तनुं दधतो दधानाः भुवि संप्रति क्वचन न प्रतिष्ठिताः राज्यभ्रंशात्क्वापि स्थितिमप्राप्ताः, अन्यत्र च भुवं न स्पृशन्तीत्यर्थः । देवत्वाद्यस्यारातयः सुरैः सदृशाः । अत्राप्यमुमिति पूर्वेण संबन्धः । श्लिष्टविशेषणेयमुपमा । श्लेष एवेत्यन्ये ॥ ६५ ॥

 अतिविस्मयनीयकर्मणो नृपतेर्यस्य विरोधि किंचन ।
 यदमुक्तनयो नयत्यसावहितानां कुलमक्षयं क्षयम् ॥ ६६ ॥

 अतीति ॥ अतिविस्मयनीयकर्मणोऽत्यन्तविस्मितपौरुषस्य । स्मयतेरनीयर्प्रत्ययः । यस्य नृपतेश्चैद्यस्य विरोधि चेष्टितं द्वेषिरूपं । न किंचिदस्तीत्यर्थः । यस्मादमुक्तनयोऽत्यक्तनीतिमार्गोऽसौ अक्षयमविनाशि । पूर्व केनापि क्षयं न नीतमित्यर्थः । अहितानां कुलं शत्रुजातं क्षयं नाशं नयति । नीतिपौरुषाभ्यां द्विषन्निर्मूलयितुरस्य का विरोधिवातेति भावः । अक्षयमपि क्षयं नयतीति विरोधस्य नेतृभेदेन परिहाराद्विरोधाभासोऽलंकारः ॥ ६६ ॥

 चलितोलकबन्धसंपदो मकरव्यूहनिरुद्धवर्त्मनः ।
 अतरत्स्वभुजौजसा मुहुर्महतः संगरसागरानसौ ॥ ६७॥

 चलितेति ॥ असौ चैद्यश्चलिताः प्रवृत्ता ऊर्ध्वा उत्थिताः कबन्धसंपदः शिरोहीनकलेवरसंपद एव कबन्धसंपद उदकसमृद्धयो येषु तान् । इति श्लिष्टरूपकम् । 'कबन्धं सलिले प्रोक्तमपमूर्धकलेवरे' इति वैजयन्ती । मकरव्यूहाः मकराकारसैन्यविन्यासाः त एव मकरव्यूहा मकरादयः समूहाः इति श्लिष्टरूपकम् । 'व्यूहौ समूहविन्यासौ' इति वैजयन्ती । तैर्निरुद्धवर्त्मनो निरुद्धप्रवेशमार्गान् । अत एव महतो दुस्तरान्संगरसागरान्समरसमुद्रान्स्वभुजौजसा निजभुजबलेनैव मुहुरसकृदतरत् । भुजेनाब्धितरणमदृष्टचरमत्यद्भुतमिति भावः । अत्र कबन्धा एव कबन्धाः मकरव्यूहा एव कच्छपादिव्यूहा इति श्लिष्टरूपकस्य संगरेषु सागररूपेणहेतुत्वात्केवलं श्लिष्टपरम्परितरूपकम् ॥ ६७ ॥

 न चिकीर्षति यः सयोद्धतो नृपतिस्तच्चरणोपगं शिरः ।
 चरणं कुरुते गतस्मयः स्वमसावेव तदीयमूर्धनि ॥ ६८ ॥

 नेति ॥ स्मयोद्धतो गर्वेण दुर्विनीतो नृपतिः शिरो निजोत्तमाङ्गं तस्य शिशुपालस्य चरणमुपगच्छतीति तच्चरणोपगं तत्पादगतं यो न चिकीर्षति कर्तुं नेच्छति तदीये तस्य नृपतेः संबन्धिनि मूर्धनि गतस्मयो विगर्वोऽसौ शिशुपाल एव

पाठा०-१ 'चेष्टितम्'.