पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१९
षोडशः सर्गः ।

 प्रतनूल्लसिताचिरद्युतः शरदं प्राप्य विखण्डितायुधाः ।
 दधतेऽरिभिरस्य तुल्यतां यदि नासारभृतः पयोभृतः ॥ ६१ ॥

 प्रतन्विति ॥ शरदं शरदृतुं प्राप्य विखण्डितायुधाः खण्डितेन्द्रचापाः अन्यत्र शरान् ददातीति शरदस्तं शरदं शरवर्षिणं प्राप्य खण्डितशस्त्राः प्रतनूल्लसिताचिरद्युतोऽल्पस्फुरितविद्युतः । अन्यत्र प्रतनूल्लसिताः स्वल्पोल्लसितास्त एवाचिरद्युतोऽस्थिरद्युतः । पयोभृतो मेघा आसारभृतः वृष्टिमन्तः न यदि । शरदि वृष्टिशून्यत्वादिति भावः । सुहृद्बलशून्या इत्यर्थः । 'आसारः स्यात्प्रसरणे वेगवृष्टौ सुहृद्बले' इति वैजयन्ती । अस्यारिभिस्तुल्यतां दधते । अत्र पयोभृतामुपमानानामुपमेयभावोक्तेः प्रतीपालंकारः । तेषामासारसंबन्धेऽपि संभावनया तदसंबन्धोक्तेरतिशयोक्तिभेदश्चेति संकरः ॥ ६१ ॥

 विशेषकमाह-

 मलिनं रणरेणुभिर्मुहुर्द्विषतां क्षालितमङ्गनाश्रुभिः ।
 नृपमौलिमरीचिर्वर्णकैरथ यस्याङ्घ्रियुगं विलिप्यते ॥ ६२ ॥

 मलिनमित्यादि ॥ मुहुरसकृत् । रणरेणुभिर्मलिनमत एव द्विषतामङ्गनाश्रुभिः क्षालितं । नाहत्वारीन् रणान्निवर्तत इति भावः । यस्याभियुगं चरणयुगलम् । अथ रेणुक्षालनानन्तरं नृपाणां प्रणतानां राज्ञां मौलिमरीचयो मुकुटमणिरश्मयस्तैरेव वर्णकैर्विलेपनैश्चन्दनैः । 'चन्दने चापि वर्णकम्' इति विश्वः । विलिप्यते विशेष्यते । अत्राङ्घ्रियुगस्य विशेषणमहिम्ना स्नातानुलिप्तपुरुषसाम्यप्रतीतेः समासोक्तिः ॥ २ ॥

 समराय निकामकर्कशं क्षणमाकृष्टमुपैति यस्य च ।
 धनुषा सममाशु विद्विषां कुलमाशङ्कितभङ्गमानतिम् ॥ ६३ ॥

 समरायेति ॥ किंचेति चार्थः । निकामकर्कशमतिकठिनम् । दुर्धर्षमित्यर्थः । समराय संप्रहारायाकृष्टमाहूतमावर्जितं च क्षणम् आशङ्कितभङ्गं मनसोप्रेक्षितस्वपराजयम् अन्यत्रातिकर्षणात्संभावितदलनं यस्य विद्विषां कुलमाशु धनुषा सममानतिं नम्रतामुपैति । अत्र धनुर्नमनकार्यस्य द्विषन्नमनस्य तत्सहभावोक्तेः कार्यकारणयोः पौर्वापर्यविपर्ययनिमित्तरूपातिशयोक्तिमूला सहोक्तिरलंकारः ॥६३॥

 तुहिनांशुममुं सुहृज्जनाः कलयन्त्युष्णकरं विरोधिनः ।
 कृतिभिः कृतदृष्टिविभ्रमाः स्रजमेके भुजगं यथापरे ॥ ६४ ॥

         (विशेषकम् ।)

 तुहिनेति ॥ अमुमेवंविधं चैद्यं सुहृज्जनाः तुहिनांशु कलयन्ति आह्लादकत्वाच्चन्द्रं मन्यन्ते । विरोधिनः उष्णकरत्वात् तपनं कलयन्ति । एकस्यानेकप्रतीतिमुपमिमीते । कृतिभिरिति । कृतिभिः कुशलैरैन्द्रजालिकादिभिः कृतदृष्टिविभ्रमा जनितदृष्टिविपर्यया एके नराः यथा स्रजं मालां कलयन्ति, अपरे तु भुजगं कलयन्ति । एकमेव रज्वादिकमिति शेषः । उपमालंकारः, स चैकस्य निमित्तवशाद्गृहीतभेदेनानेकधोल्लिखनात्मकेनोल्लेखेन संकीर्यते ॥ ६४ ॥ पाठा०-१ पयोमुचः'. २ वर्णकैः खलु'.

-