पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१८
शिशुपालवधे

क्लेशतमसोः' (३।२।५०) इति हन्तेर्डप्रत्ययः । अह्रां पतिमहर्पतिं सूर्यम् । 'अहरादीनां पत्यादिषूपसंख्यानम्' (वा.) इति वैकल्पिको रेफादेशः । राह्वाह्वां राह्वाख्यं तमः । 'आख्यह्वे अभिधानं च' इत्यमरः । मुहुर्ग्रसते नु गिलति हि । अत्र हरिसूर्ययो राहुचैद्ययोश्च वाक्यभेदेन प्रतिबिम्बकरणादृष्टान्तालंकारः ॥ ५७॥

 किं च न भवानेक एव विजेष्यते, किंतु सर्वैर्यादवैः सहेत्याह-

 अचिराजितमीनकेतनो विलसन्वृष्णिगणैर्नमस्कृतः।
 क्षितिपः क्षयितोद्धतान्धको हरलीलां स विडम्बयिष्यति ॥५८॥

 अचिरादिति ॥ स क्षितिपः राजा अचिरादविलम्बितमेव जितो मीनकेतनः कार्ष्णिः प्रद्युम्नः, स्मरश्च येन सः । वृष्णयो यादवभेदास्तेषां गणैरोघैर्नमस्कृतो भीत्या प्रणतः सन् । अत एव विलसन् दीप्यमानः । अन्यत्र वृष्णीति पदच्छेदः । वृष्णि उक्षणि विलसन् । वृषारूढ इत्यर्थः । गणैः प्रमथैर्नमस्कृतः । 'गणाः प्रमथसंख्यौघाः' इति, 'वृषा महेन्द्रे वृषभे' इति च वैजयन्ती । क्षयिता नाशिता उद्धता दृप्ता अन्धका यादवभेदाः । अन्यत्रान्धकोऽसुरो येन सः हरलीलां शंभुविभ्रमं विडम्बयिष्यत्यनुकरिष्यति । अत्र हरलीलामिति' सादृश्याक्षेपान्निदर्शना श्लेषसंकीर्णा ॥ ५८ ॥  ननु देवासुरैरप्यजय्या यादवाः कथं राज्ञा जेष्यन्ते तत्राह-

 निहतोन्मददुष्टकुञ्जराद्दधतो भूरि यशः क्रमार्जितम् ।
 न बिभेति रणे हरेरपि क्षितिपः का गणनास्य वृष्णिषु ॥५९॥

 निहतेति ॥ क्षितिपश्चेदिपो निहत उन्मदो दुष्टकुञ्जरः कुवलयापीडाख्यो येन तस्मात् , अन्यत्र हतानेकमत्तमातङ्गात् । अत एव क्रमार्जितं भूरि यशो दधतः । हरेः कृष्णात् , सिंहाच्चेति ध्वनिः । रणे न बिभेति । अस्यैतादृशचैद्यस्य वृष्णिषु यादवेषु मेषेषु च । 'वृष्णिस्तु यादवे मेषे' इति विश्वः । का गणना। कृष्णमगणयतो यादवाः के इत्यर्थः । अत्र कुञ्जरघातिनः सिंहस्य का कथा मेषेष्वित्यर्थान्तरप्रतीतिध्वनिरेव न श्लेषः । हरेर्वृष्णिविशेषस्यापि श्लिष्टत्वाअकृ- ताप्रकृतश्लेषे तदङ्गीकारादित्युक्तं प्राक् ॥ ५९ ॥

 हरेरपि न बिभेतीत्युक्तं तदेव संभावयितुं तस्य पराक्रमानासर्गसमाप्तेर्वर्णयति-

 न तदद्भुतमस्य यन्मुखं युधि पश्यन्ति भिया न शत्रवः ।
 द्रवतां ननु पृष्ठमीक्षते वदनं सोऽपि न जातु विद्विषाम् ॥६०॥

 नेति ॥ युधि शत्रवो भियाऽस्य मुखं न पश्यन्तीति यत्तन्नाद्भुतम्, कुतः सोऽपि न ईक्षते ननु खलु । द्रवतां भयात्पलायमानानां विद्विषां पृष्ठं कायपार्श्वाङ्गमीक्ष्यते । जातु कदाचित् वदनं न ईक्षते ननु खलु । द्वयोरन्यतरमुखेष्वन्योन्यस्य मुखविलोकनासंभवात्स्वयं विमुखानां विद्विषामभिमुखस्याप्यस्य मुखादर्शनादद्भुतमिस्यर्थः । अत एव वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ६० ॥