पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१६
शिशुपालवधे

गृधिषिक्षिपेः नुः' (३।२।१४०) इति क्नु प्रत्ययः । 'न लोका-' (२।३।६९) इत्यादिना कृद्योगे षष्ठ्या निषेधे तवेति शेषे षष्ठी । पर्यवसानात्तु कर्मत्वलाभः । 'अभीषुः प्रग्रहे रश्मौ' इत्यमरः । विश्वप्रकाशादयः सर्वेऽप्याभिधानिका मूर्धन्यान्तेषु पेठुः । लोकवेदयोस्तु तालव्यान्तो दृश्यते । 'अभीशूनां महिमानम्' इत्यादि ॥ ५० ॥

 तर्ह्यस्मदर्थं त्वया राजा सान्त्वयितव्य इत्याशङ्क्य नेत्याह-

 क्षुभितस्य महीभृतस्त्वयि प्रशमोपन्यसनं वृथा मम ।
 प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किम् ॥५१॥

 क्षुभितस्येति ॥ त्वयि विषये क्षुभितस्यातिक्रुद्धस्य महीभृतो राज्ञो मम प्रशमोपन्यसनं शान्युपदेशो वृथा निष्फलः । तथा हि-प्रलयोल्लसितस्य कल्पान्तक्षुभितस्य वारिधेः जगतः परिवाहो जगत्कृतो जलनिर्गममार्गः किं करोति । न किंचिदित्यर्थः । महतां क्षोभ उन्मूल्य विपक्षं निवर्तत इत्यर्थः । दृष्टान्तालंकारः ॥ ५१ ॥

 तर्ह्यसंधित्सुना राज्ञा किमर्थं भवानिह प्रहितस्तत्राह-

 प्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता ।
 न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव ॥ ५२ ॥

 प्रहित इति ॥ प्रधनाय युद्धाय माधवान् यादवानाकारयितुमाह्वातुम् । 'युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्' । 'हूतिराकारणाह्वानम्' इति चामरः । महीभृता राज्ञाहं प्रहितः प्रेषितः । ननु रन्ध्रे हन्तव्याः शत्रवो नाह्वातव्या इत्यत्राह-नेति । महौजसो महावीराः परेष्वरिषु मलिम्लुचाः पाटच्चरा इव । 'पाटच्चरमलिम्लुचाः' इत्यमरः । छलात्कपटात् नापकुर्वन्ति । तस्मादाह्वानं कर्त- व्यमिति वाक्यार्थहेतुकं काव्यलिङ्गमुपमालंकारसंकीर्णम् ॥ ५२ ॥

 तदेवागमनप्रयोजनमुक्त्वा हितमुपदिशति-

 तदयं समुपैति भूपतिः पयसां पूर इवानिवारितः ।
 अविलम्बितमेधि वेतसस्तरुवन्माधव मा म भज्यथाः ॥५३॥

 तदयमिति ॥ तत्तस्माद्युद्धार्थित्वादयं भूपतिश्चैद्यः पयसां पूरः प्रवाह इवानिवारितः समुपैति । हे माधव, अविलम्बितं शीघ्रं वेतसः एधि भव । तद्वन्नम्रमात्मानं रक्षेत्यर्थः । अस्तेर्लोट् सिपि हेर्धिः 'ध्वसोरेद्धावभ्यासलोपश्च' (६।४।११९) इति एत्वम् । 'धि* च' (८।२।२५) इति सकारलोपः। माधव, त्वं तरुवन्म- हावृक्षवत् मा स्म भज्यथा मा भज्यस्व । अतः आत्मानं न विनाशयेत्यर्थः । भजेः कर्मण्याशिषि लिङः (अर्थे ) 'मोत्तरे लङ् च' (३।३।१७६) इति लङ् 'न माङ्योगे' (६७४) इत्यडभावः । उपमालंकारः ॥ ५३ ॥

 ननु राज्ञि शिशुपाले यूनामफलमित्याशङ्क्याह-

 परिपाति स केवलं शिशूनिति तन्नामनि मा स विश्वसीः ।

[* उपन्यस्तसूत्रेण सकारस्यैवालोऽन्त्यपरिभाषया एत्वे 'श्नसोरल्लोपः' (६।४।१११)

इत्यकारलापे रूपसिद्धौ ‘घि च' (८।२।२५) इत्यस्योपन्यासो भ्रममूलकः ।।