पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१५
षोडशः सर्गः ।

योग्यता पात्रता कुत एव । न कुतोऽपीत्यर्थः । तथा हि-सहसि मार्गशीर्षे । 'मार्गशीर्षे सहा मार्गः' इत्यमरः । प्लवगैः कपिभिः उपासितं सेवितं गु्ञ्जाफलं काकचिञ्चीबीजानि । जातावेकवचनम् । 'काकचिञ्चीगुञ्जे तु कृष्णला' इत्यमरः । सोष्मतामुष्णतां नैति हि । न हि पुंसां मूढपरिग्रहापरिग्रहौ गौरवागौरवयोः प्रयोजकावित्यर्थः । अत्र कृष्णगुञ्जाफलयोर्विशेषयोरेव वाक्यभेदेन प्रतिबिम्बीकरणादृष्टान्तालंकारः ॥ ४७ ॥

 'यदपूरि पुरा' (१६॥३६) इत्यादिना यत्सात्यकिना शतापराधक्षमत्वमुक्तं तत्रोत्तरमाह-

 अपराधशतक्षमं नृपः क्षमयात्येति भवन्तमेकया ।
 हृतवत्यपि भीष्मकात्मजां त्वयि चक्षाम समर्थ एव यत् ॥४८॥

 अपराधेति ॥ नृपश्चैद्यः अपराधशतक्षमं राज्ञः शतापराधसहिष्णुं भवन्तं एकया क्षमया । एकापराधसहनेनेत्यर्थः । अत्येति अतिक्रामति । अपराधकोटीनामपि तस्यांशेनापि साम्यासंभवादिति भावः । तामेव क्षमां दर्शयति-त्वयि भीष्मकात्मजां रुक्मिणीं हृतवत्यपि समर्थः प्रतीकारक्षम एव सन्नपि चक्षाम क्षाम्यति स्मेति यत् तया क्षमयेत्यर्थः ॥४८॥

 'राक्षसं क्षत्रियस्यैकं' (मनु० ३।२४) इति स्मरणाद्रासोद्वाहस्य क्षात्रधर्मत्वाद्रुक्मिणीहरणे कोऽस्माकमपराधः, राज्ञो वा कात्र क्षमेत्याकाङ्क्षायामाह-

 गुरुभिः प्रतिपादितां वधूमपहृत्य स्वजनस्य भूपतेः ।
 जनकोऽसि जनार्दन स्फुटं हतधर्मार्थतया मनोभुवः ॥ ४९ ॥

 गुरुभिरिति ॥ हे जनार्दन, गुरुभिः पित्रादिभिः प्रतिपादितां राज्ञे दत्ताम् अत एव स्वजनस्य बन्धोभूपतेर्महाराजस्य वधूं जायामपहृत्य हतौ धर्मार्थों येन तत्तथा तया हतधर्मार्थतया स्फुटं मनोभुवः कामस्य जनकोऽसि । धर्मार्थबाधेन काममात्रनिष्ठोऽसीत्यर्थः । नायं राक्षसो विवाहः। 'हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् । प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥' (मनु. ३।३३) इति कन्याहरणस्य राक्षसत्वस्मरणात् । अयं तु परदारापहरणो बन्धुद्रोहो राजद्रोहश्चेत्यहो पापिष्ठस्य कामान्धस्य ते परमसाहसिकत्वमिति भावः ॥ ४९ ॥

 सत्यमीदृगेवाहं ततः किमित्याशङ्क्य किमन्यद्वधादित्याह-

 अनिरूपितरूपसंपदस्तमसो वान्यभृतच्छदच्छवेः ।
 तव सर्वगतस्य संप्रति क्षितिपः क्षिप्तुराभीशुमानिव ॥ ५० ॥

 अनिरूपितेति ॥ अनिरूपितरूपसंपदः शैलूषवद्बहुरूपधारित्वादज्ञातरूपविशेषस्यावाङ्मनसगोचरस्वरूपवैभवस्येति च गम्यते । अन्यत्र आरोपितं कृष्णरूपं तेजोविशेषाभावस्तम इति च मतद्वयेऽपि प्रमाणानवधृतरूपसंपद इत्यर्थः । अन्यभृतच्छदच्छवेः कोकिलपक्षकान्तेस्तव तमसो वा तिमिरस्येव । वा स्याद्विकल्पोपमयोः'

इति विश्वः । सर्वगतस्य क्षितिपश्चेदिपोऽभीशुमानंशुमानिव संप्रतीदानीमेव क्षिप्नुः क्षेप्ता । हन्तेत्यर्थः । शास्तासौ दुरात्मनामिति भावः । 'त्रसि