पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१४
शिशुपालवधे

 नन्वभिनिविष्टोऽपि सुजनैर्बलादपि हिते प्रवर्तयितव्य इत्याशङ्क्य न शक्यत इत्याह-

 अनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतोऽनुधावति ।
 अपहाय महीशमार्चिचत्सदसि त्वां ननु भीमपूर्वजः ॥ ४४ ॥

 अनपेक्ष्येति ॥ जनस्त्वादृशः पृथग्जनः । गुणागुणौ गुणदोषौ । विप्रतिषिद्धं चानधिकरणवाचि' (२।४।१३) इति विभाषया न द्वन्द्वैकवद्भावः । अनपेक्ष्याविमृश्य निश्चयतः स्वनिश्चयादेव स्वरुचिं स्वेच्छामनुधावति । न तु स्वहितमनुसरतीत्यर्थः । तत्र पार्थ एव प्रमाणमित्याह-भीमपूर्वजः भीमाग्रजो युधिष्ठिरः । मूर्खाग्रणीरिति भावः । महीशं चेदिपमपहाय सदसि त्वामार्चिचदर्चितवान्खलु । अर्चयतेर्णॊ चङि 'अजादेर्द्वितीयस्य' (६।१।२) 'न न्द्राः संयो- गादयः' (६।१।३) इति रेफवर्जितस्यैकाचो द्विर्भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ४४ ॥

 पार्थानादरादेव राज्ञो लाघवं विज्ञेयमित्याशङ्क्य परिहरति-

 त्वयि भक्तिमता न सत्कृतः कुरुराजा गुरुरेव चेदिपः ।
 प्रियमांसमृगाधिपोज्झितः किमवद्यः करिकुम्भजो मणिः ॥४५॥

 त्वयीति ॥ हे कृष्ण, त्वयि भक्तिमता प्रेमवता । कुरूणां राट् । 'सत्सूद्विष-'(३।२।६१) इत्यादिना क्विप् । तेन कुरुराजा कुरुराजेन पार्थेन न सत्कृतो नार्चितश्चेदिपो गुरुरेव पूज्य एव । तथा हि-प्रियं मांसं यस्य तेन मांसगृध्नुना मृगाधिपेन सिंहेनोज्झितस्त्यक्तः करिकुम्भजो मणिर्मुक्तामणिरवद्यो गर्ह्यः किम् । अनवद्य एवेत्यर्थः । मूर्खानादरान्न महतां किंचिल्लाघवमित्यर्थः । 'कुपूयकुत्सितावद्यखेटगार्ह्यणकाः समाः' इत्यमरः । 'अवद्यपण्य-' (३।१।१०१) इत्यादिना निपातः । दृष्टान्तालंकारः ॥ ४५ ॥

 विदुषां तु पूज्य एव चैद्य इत्याशयेनाह-

 क्रियते धवलः खलूच्चकैर्धवलैरेव सितेतरैरधः।
 शिरसौघमधत्त शंकरः सुरसिन्धोर्मधुजित्तमङ्घ्रिणा ॥ ४६॥

 क्रियत इति ॥ धवलो निर्मलो धवलैर्निर्मलैरेवोच्चकैरुन्नतः क्रियते खलु । सितेतरैमलिनैरधः क्रियते। तथा हि-शंकरः शिवः सुरसिन्धोरोघं मन्दाकिनीपूरं शिरसा अधत्त । उभयोर्नैर्मल्यादिति भावः । मधुजिन्मधुशत्रुर्विष्णुस्तु तमोगमङ्घ्रिणा अधत्त । स्वयं मलिनत्वादिति भावः । अतो विशेषविदुषां राजा पूज्य एवेति भावः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ४६॥

 किंच यथा पार्थानादराद्राज्ञो न किंचिल्लाघवं तथा तदादराच्च न ते किंचिद्गौरवमित्याह-

 अबुधैः कृतमानसंविदस्तव पार्थैः कुत एव योग्यता ।
 सहसि प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मताम् ॥ ४७ ॥

 अबुधैरिति॥ अबुधैरज्ञैः पार्थैः कृते मानसंविदौ पूजातोषणे यस्य तस्य । 'संवित्स्त्रियां प्रतिज्ञायां संकेताचारनामसु । संभाषणे तोषणे च' इति विश्वः । तव

पाठा०-१ 'गुणागुणं'. २ धुशत्रुः'.