पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१३
षोडशः सर्गः ।

 अथ किमद्भुतं मूर्खेष्वित्याशयेनाह-

 विदुरेष्यदपायमात्मना परतः श्रद्दधतेऽथवा बुधाः ।
 न परोपहितं न च स्वतः प्रमिमीतेऽनुभवादृतेऽल्पधीः ॥ ४० ॥

 विदुरिति ॥ बुधा बुद्धिमन्तः एष्यन्तमागामिनं अपायमनर्थं आत्मना स्वयमेव । प्रकृत्यादिभ्य उपसंख्यानात्तृतीया । विदुर्विदन्ति । 'विदो लटो वा' (३।४।८३) इति विकल्पाज्जुसादेशः । अथवा परतोऽन्यस्मादाप्ताकच्छ्रद्दधते विश्वसन्ति । आप्तोक्तं गृह्णन्तीत्यर्थः । 'श्रदन्तरोरुपसंख्यानम्' (वा०) इत्युपसर्गसंज्ञोपसंख्यानाद्धातोः प्राक्प्रयोगः । अल्पधीर्मूढस्तु अनुभवादृते स्वानुभवं विना । 'अन्यारादितरर्ते-' (२।३।२९) इति पञ्चमी । न प्रमिमीते न जानाति । स्वतः प्रमाता उत्तमः, परतः प्रमाता मध्यमः, अधमस्तु स्वानुभवैकप्रमाण इत्यर्थः । अधमस्त्वमिति भावः । अत एवाप्रस्तुतसामान्यात्प्रस्तुतविशेषप्रतीतेरप्रस्तुतप्रशंसाभेदः ॥ ४० ॥

 अतः प्रस्तुते किमायातं तत्राह-

 कुशलं खलु तुभ्यमेव तद्वचनं कृष्ण यदभ्यधामहम् ।
 उपदेशपराः परेष्वपि स्वविनाशाभिमुखेषु साधवः ॥ ४१ ॥

 कुशलमिति ॥ हे कृष्ण, अहं यद्वचनमभ्यधाम् 'अभिधाय-' (१६।२) इत्यादिना राज्ञां संधिर्गुणाय विग्रहस्त्वनायेत्येवमवोचमित्यर्थः । तद्वचनं तुभ्यमेव कुशलं हितम् । 'चतुर्थी चाशिष्यायुष्यमद्रभद्कुशलसुखार्थहितैः' (२।३।७३) इति चतुर्थी । नन्वहितेषु हितोपदेशात्प्रत्ययः कथमित्याशङ्क्यार्थान्तरन्यासेन परिहरति- साधवः सुजनाः स्वविनाशाभिमुखेषु । प्रबलविरोधादात्मविनाशहेतुभूतकर्मप्रवृत्तेष्वित्यर्थः । परेषु शत्रुष्वप्युपदेशपरा उपदिशन्त्येव कृपालुतयेति भावः ॥ ४१ ॥

 तथाप्यर्थद्वये त्वद्वाक्ये किं ग्राह्यं तत्राह-

 उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते ।
 प्रविभज्य पृथङ्मनीषया स्वगुणं यत्किल तत्करिष्यसि ॥ ४२ ॥

 उभयमिति॥ मया सान्त्वं सामादि । अथेति पक्षान्तरे । इतरत् असान्त्वम् । विग्रहश्चेत्यर्थः । युगपदुदितं, श्लेषाश्रयणादेकशब्देनाभिहितमित्यर्थः । त्वं तु मनीषया बुद्ध्या पृथग्भेदेन प्रविभज्य विविच्य यत्स्वगुणं तत्र द्वयेऽपि त्वरया यच्छुभोदकं तत्करिष्यसि किल खलु । हंसः क्षीरमिवाम्भसीति भावः ॥ ४२ ॥

 अथवा सुजनः स्वभावात्कृतोऽपि हितोपदेशो मूर्खेषु निष्फल इत्याह-

 अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् ।
 रविरागिषु शीतरोचिषः करजालं कमलाकरेष्विव ॥ ४३ ॥

 अथवेति ॥ अथवा अभिनिविष्टबुद्धिषु दुराग्रहग्रस्तचित्तेषु विषये सुभाषितं हितोपदेशवचनं रविरागिषु तपनानुरक्तेषु कमलाकरेषु शीतरोचिषः शीतभानोः करजालमिव व्यर्थकतां निरर्थकतां व्रजति । तस्मादलमेव त्वयि हितोपदेशचिन्तयेति भावः॥४३॥

पाठा०-१ 'उभयं त्वरया राजकार्यत्वाद्वेगेनाविलम्बार्थमित्यर्थः । ते तुभ्यं युग