पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१२
शिशुपालवधे

 यदिति ॥ पुरा पूर्व महीपतिश्चैद्यो मुखेन स्ववाचा यदागसामपराधानां शतम् । 'आगोऽपराधो मन्तुश्च' इत्यमरः । शार्ङ्गिणः कृष्णस्य स्वयं नापूरि । नापूरयदित्यर्थः । पूरयतेः कर्तरि लुङ् 'दीपजन-' (३।१।६१) इत्यादिना विकल्पाच्चिण्प्रत्यये चिणो लुक् । अथ स्वप्रलापानन्तरं संप्रतीदानीमसौ चैद्यः दूतमुखेन दूतवाचा तत् आगसां शतं पर्यपूपुरत् परिपूरयामास । दूतमुखत्वाद्राज्ञां तेन कृष्णक्रोधावसरदानेन महदुपकृतमायुष्मतेति भावः । पूरयतेर्लु्ङि ‘णो चङ्युपधाया ह्रस्वः' । (७४।१) अभ्यासदीर्घः ॥ ३६॥

 निगमयन्फलितमाह-

 यदनर्गलगोपुराननस्त्वमितो वक्ष्यसि किंचिदप्रियम् ।
 विवरिष्यति तच्चिरस्य नः समयोद्वीक्षणरक्षितां क्रुधम् ॥ ३७॥

 यदिति ॥ अनर्गलमविष्कम्भम् । विकृतमिति यावत् । 'तद्विष्कम्भोऽर्गलं न ना' इत्यमरः । यद्गोपुरं पुरद्वारं तदिवाननं यस्य सः । वाच्यावाच्यविवेकशून्य इत्यर्थः । त्वमितः इतःपरं यत्किंचिदप्रियं वक्ष्यसि तदप्रियं नोस्माकं चिरस्य चिराप्रभृति । 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः' इत्यव्ययेष्वमरः । समयोद्वीक्षणेन संवित्प्रतीक्षणेन रक्षितां, निरुद्धामित्यर्थः । 'समयाः शपथाचार. कालसिद्धान्तसंविदः' इत्यमरः । क्रुधं क्रोधं विवरिष्यति । 'वृतो वा' (७।२। ३८) इति दीर्घविकल्पः । इतःपरं त्वमपि दण्ड्य एवेति भावः ॥ ३७ ॥

 निशमय्य तदुर्जितं शिनेर्वचनं नप्तुरनाप्तुरेनसाम् ।
 पुनरुज्झितसाध्वसं द्विषामभिधत्ते स वचो वचोहरः ॥ ३८ ॥

 निशमय्येति ॥ एनसामनाप्तुरसंस्प्रष्टुः । सत्यवादिन इति भावः । आप्नोतेस्तृच् । शिनेः शिनिनाम्नः कस्यचिद्यादवस्य नप्तुः पौत्रस्य । सात्यकेरिति भावः । तदूर्जितमर्थयुक्तं वचनं निशमय्य श्रुत्वा । 'ल्यपि लघुपूर्वात्' (६।४।५६) इति णेरयादेशः । पुनर्भूयोऽप्युज्झितसाध्वसं त्यक्तभयं यथा तथा द्विषां वचो हरतीति वचोहरो दूतः । 'हरतेरनुद्यमनेऽच्' । (३।२।९) वचोऽभिधत्ते स्म अभिहितवान् ॥ ३८॥

 विविनक्ति न बुद्धिदुर्विधः स्वयमेव स्वहितं पृथग्जनः ।
 यदुदीरितमप्यदः परैर्न विजानाति तदद्भुतं महत् ॥ ३९ ॥

 विविनक्तीति ॥ बुद्ध्या दुर्विधो दरिद्रः । बुद्धिशून्य इत्यर्थः । निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः' इत्यमरः । पृथग्जनः पामरजनः स्वयमेव परोपदेशं विनैवात्महितं न विविनक्ति तद्युक्तमेवेति भावः । किंतु परैरुदीरितमुपदिष्टमप्यदो हितं न विजानातीति यत्तन्महदद्भुतम् । यतः सूक्तं न गृह्णातीति भावः॥ ३९॥

पाठा०-१ "रक्षिताः क्रुधः'.