पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४११
षोडशः सर्गः ।

बलं येषां ते ध्वनिसारा वाक्शूरा एव । न तु बाहुबलशालिन इति भावः । अत्रापीदृशौ कृष्णचैद्यावित्यप्रस्तुतसामान्यात्प्रस्तुतविशेषप्रतीतेरप्रस्तुतप्रशंसाभेदः ॥३२॥

 'अभिधाय तदा तदप्रियम्' (१६३२) इत्यादिना यद्दूतेन युगपत्प्रियाप्रिये अभिहिते तत्रोत्तरमाह-

 नरकच्छिदमिच्छतीक्षितुं विधिना येन स चेदिभूपतिः।
 द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरम् ॥ ३३ ॥

 नरकेति ॥ स महीपतिश्चेदिभूपतिः येन विधिना येन प्रकारेण संधिना विग्रहेण वा नरकच्छिदं नरकस्याप्यन्तकम् । किमन्येषामशक्तानामिति भावः । ईक्षितुमिच्छति तस्य विधेः सदृशमुत्तरं प्रतिक्रिया स्नेहो विरोधो वा विधातुं न हापयिष्यते न यापयिष्यते । अविलम्बेन विधास्यत इत्यर्थः। जहातेण्यन्तात्कर्मणि लट् । विधानक्रियया अनभिहितेऽपि प्रधानभूतहापनक्रिययाभिहितत्वादुत्तरमिति न कर्मणि द्वितीया । द्रुतं शीघ्रमेतु आगच्छतु । आगमने स्वयमेव हीयत इति भावः ॥३३॥

 ननु 'अभिधाय' (१६॥२) इत्यादौ मयापि सान्त्वमेव विवक्षितं न विग्रहस्तत्किमुभयाभ्यनुज्ञयेत्याशङ्क्याह-

 समनद्ध किमङ्ग भूपतिर्यदि संधित्सुरसौ सहामुना ।
 हरिराक्रमणेन संनतिं किल बिभ्रीत भियेत्यसंभवः ॥ ३४ ॥

 समनद्धति ॥ अङ्गेत्यामन्त्रणे । असौ भूपतिश्चैद्योऽमुना हरिणा सह संधित्सुर्यदि संधातुमिच्छुश्चेत् । दधातेः सन्नन्तादुप्रत्ययः । किं समनद्ध किमर्थं संनद्धवान् । ततो नायं संधित्सुरिति भावः । नातेः स्वरितेत्त्वात्कर्तरि लुङि तङ् 'झलो झलि' (८।२।२६) इति सकारलोपः । कृष्णभीषणार्थं संनाह इत्यत आह-हरिः सिंहः कृष्णश्च किलाक्रमणेनाभिभवेन या भीस्तया संनतिं नम्रता विधीत बिभृयादित्यसंभवः। संभवो नास्ति खल्वित्यर्थः ॥ ३४ ॥

 अथाक्रमणेऽनिष्टमाचष्टे-

 महतस्तरसा विलङ्घयन्निजदोषेण कुधीर्विनश्यति ।
 कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः ॥ ३५ ॥

 महत इति ॥ कुधीरासन्नविनाशत्वाद्विपरीतबुद्धिमान्महतो महानुभावांस्तरसा बलेन । 'तरसी बलरंहसी' इति विश्वः । विलङ्घयन्नाक्रामन्निजदोषेण स्वापराधेनैवोल्लङ्घनरूपेण विनश्यति । तथा हि-इद्धदीधितिर्दीप्तार्चिरग्निः स्वया निजयेच्छया शलभान्पतङ्गान् । 'समौ पतङ्गशलभौ' इत्यमरः । इन्धनं दाह्यं न कुरुते खलु, किंतु त एव निजौद्धत्यान्निपत्य दह्यन्त इत्यर्थः । इतः परं न क्षम्यत इति भावः । दृष्टान्तालंकारः ॥ ३५ ॥

 नन्वसहने शार्ङिणः शतापराधसहनप्रतिज्ञाभङ्गः स्यादित्यत्राह-

 यदपूरि पुरा महीपतिर्न मुखेन स्वयमागसां शतम् ।
 अथ संप्रति पर्यपूपुरत्तदसौ दूतमुखेन शार्ङ्गिणः ॥ ३६॥

पाठा०-१०षां मशकानां'.