पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१०
शिशुपालवधे

सूक्ष्माणामपीति भावः । ईक्षणे दर्शने दिव्यचक्षुषोऽप्रतिहतदृष्टयः । किंच स्वगुणेषूच्चगिरः । आत्मप्रशंसायामतिप्रगल्भवाच इत्यर्थः । परवर्णग्रहणेषु परस्तुतिवचनेषु । "स्तुतौ वर्णं तु वाक्षरे' इत्यमरः । मुनिव्रता मौनव्रतिनः । 'अर्श-आदिभ्योऽच्' (५।२।१२७)। चैद्यश्चैवंविध इति प्रतीतेरप्रस्तुतप्रशंसा ॥ २९ ॥

 साधवस्तु नैवमित्याह-

 प्रकटान्यपि नैपुणं महत्परवाच्यानि चिराय गोपितुम् ।
 विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसाम् ॥ ३०॥

 प्रकटानीति ॥ आर्यचेतसां सुमनसां प्रकटान्यपि परवाच्यानि परदूषणानि चिराय गोपितुं गोपायितुम् । संवरीतुमित्यर्थः । 'आयादय आर्धधातुके वा' (३।१॥३१) इति विकल्पादायप्रत्ययाभावः । महन्नैपुणं कौशलम् । अथेति वाक्यारम्भे । अथात्मनो गुणान्विवरीतुं प्रकटयितुम् । आत्मप्रशंसां कर्तुमित्यर्थः । भृशमाकौशलमत्यन्तमकौशलम् । साधवो न परान्निन्दन्ति न वात्मानं प्रशंसन्ति 'आत्मप्रशंसां परगर्हामिव वर्जयेदि'त्यापस्तम्बीये निषेधस्मरणादिति भावः 'नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्' (७३।३०) इति विकल्पान्नपूर्वपदस्यापि वृद्धिः । कृष्णश्चैवंभूत इति विशेषप्रतीतेरप्रस्तुतप्रशंसैव ॥ ३० ॥

 किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः ।
 वदिता न लघीयसोऽपरः स्वगुणं तेन वदत्यसौ स्वयम् ॥३१॥

 किमिति ॥ किंच महामना महात्मा । अखिललोककीर्तितं स्वत एव सर्वैर्लोकः प्रख्यातमात्मगुणं किमिव किमर्थं कथयति । न कथयत्येव । स्वत एव सवैलौकैः कीर्त्यमानत्वादित्यर्थः । लघीयसस्तुच्छस्य तु स्वगुणं वदिता वक्ता । वदेस्तृच्प्रत्ययः । अत एव 'न लोका-' (२।३।६९) इत्यादिना षष्टीप्रतिषेधः । अपरोऽन्यो नास्ति तेन कारणेनासौ लघीयान् स्वगुणं स्वयमेव वदति, न केवलं निषेधात् । स्वत्वप्रयोजनत्वादपि महानात्मप्रशंसां न करोति, तुच्छस्तु वक्रन्तरासंभवात् स्वयमेव तां प्रलपतीत्यर्थः । पूर्वार्धे पदार्थहेतुकं काव्यलिङ्गम् , उत्तरार्धे वाक्यार्थहेतुकं चोन्नेयम् । कृष्णचैद्यौ चैवंविधाविति विशेषप्रतीतेरप्रस्तुतप्रशंसा चेति संकरः ॥३१॥

 किंच महात्मानः क्रुद्धाः काले पराक्रमन्ति, दुरात्मानस्तु केवलं प्रलपन्तीत्याह-

 विसृजन्त्यविकत्थिनः परे विषमाशीविषवन्नराः क्रुधम् ।
 दधतोऽन्तरसाररूपतां ध्वनिसाराः पटहा इवेतरे ॥३२॥

 विसृजन्तीति ॥ परे नराः सत्पुरुषाः विषमाशीविषवत् क्रूरसर्पवदित्युपमा ।

अविकस्थिनोऽनात्मश्लाघिन एव कुधं क्रोधं विसृजन्ति वमन्ति । पराक्रमन्तीत्यर्थः । अन्तरभ्यन्तरे असाररूपतां निःसाररूपतां दधतो दधानाः । 'नाभ्यस्ताच्छतुः' (७।१।७८) इति नुमभावः । इतरे जना दुर्जनाः पटहा इव ध्वनिरेव सारो