पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०७
षोडशः सर्गः ।

 प्रकटमिति ॥ प्रकटं प्रकाशं मृदु नाम मृदुकल्पं जल्पतः कथयतः । अन्तरान्तः परुषमनिष्टमर्थं सूचयतः ईदृशोऽन्तःशुद्धिशून्यात्पुरुषादीदृशः शकुनादिव बहिः शुभङ्करं कुर्वतोऽन्तरा परुषं सूचयतः पिङ्गलादिपक्षिण इव मार्गवर्तिभिः सन्मार्गवर्तिभिरध्वगैश्चोद्विजितव्यम् । नचांशतोऽपि ग्राह्यम् , विषसंपृक्तान्नवदखिलस्यानर्थहेतुत्वादिति भावः । 'विज इट्' (१।२।२) इतीटः कित्त्वान्न गुणः ॥१९॥

 एवं दूतं निर्भर्त्स्य अथ चैद्यं च तद्दोषोद्घाटनपूर्वकं भर्त्सयते-

 हरिमर्चितवान्महीपतिर्यदि राज्ञस्तव कोऽत्र मत्सरः ।
 न्यसनाय ससौरभस्य कस्तरुसूनस्य शिरस्यसूयति ॥ २०॥

 हरिमित्यादि ॥ महीपतिर्युधिष्ठिरो हरिमर्चितवान्यदि पूजितवांश्चेत् । अत्र हर्यर्चने तव राज्ञश्चैद्यस्य मत्सरः कः । न कोऽपीत्यर्थः । ससौरभस्य परिमलयुक्तस्य तरुसूनस्य । तरुग्रहणं सूनस्य साधारणत्वद्योतनार्थम् । शिरसि न्यसनायार्पणाय' कोऽसूयति । न कोपीत्यर्थः । 'क्रुधद्रुह-' (१।१४।३७) इत्यादिना संप्रदानसंज्ञा । सर्वत्र गुणवद्वस्तु गुणज्ञैर्बहु मन्यते, तटस्थानां किमत्र वृथा संतापेनेति भावः । अत्र हरितरुसूनयोर्वाक्यद्वये - बिम्बप्रतिबिम्बभावेनार्चनाशिरोधारणारूपसमानधर्मनिर्देशादृष्टान्तालंकारः ॥ २० ॥

 अथ कथं महान्महतः पूजां सहत इत्याशय हरिचैद्ययोर्महदन्तरं मनसि निधाय सामान्यतः सुजनदुर्जनयोरन्तरं चतुर्भिराह--

 सुकुमारमहो लघीयसां हृदयं तद्गतमप्रियं यतः।
 सहसैव समुद्रिन्त्यमी जरयन्त्येव हि तन्मनीषिणः ॥२१॥

 सुकुमारमित्यादि ॥ लघीयसामल्पीयसां हृदयं सुकुमारं तुच्छम् । कुतः यतोऽमी लघीयांसस्तद्गतं हृदयगतमप्रियं सहसैव झटित्येव समुद्भिरन्ति समुच्चारयन्ति । - मनीषिणस्तु तदप्रियं कथंचित् । संभाव्यमानमपीति शेषः । जरयन्ति अन्तरेव क्षपयन्ति । न तूद्गिरन्तीत्यर्थः । अहो इत्याश्चर्ये । चैद्यश्चोद्गिरति नैवं हरिरित्यहो महदन्तरमनयोरिति भावः । अत एवाप्रस्तुतात्सामान्यात्प्रस्तुतविशेषप्रतिपत्तिरूपोऽयमप्रस्तुतप्रशंसाभेदः । 'अप्रस्तुतस्य कथनात्प्रस्तुतं यत्र गम्यते । अप्रस्तुतप्रशंसेयं सारूप्यादिनियन्त्रिता ॥' इति लक्षणात् । आदिशब्दात्सामान्यविशेषसंग्रहः । एवमुत्तरश्लोकनयेऽपि दृष्टव्यं, विशेषं तु वक्ष्यामः ॥ २१ ॥

 उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः ।
 असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः ॥ २२ ॥

 उपकारेति ॥ किंच सज्जनः स्वभावतः सततं सर्वजनस्योपकारपरः । नतूपाधिपरः कदाचित्कस्यचिदेवेति भावः । तथापि सर्वोपकारित्वेऽपि तदुन्नतिस्तस्य सज्जनस्योत्कर्षः असतामसाधूनामनिशं गुरुहृद्रोगकरी अत्यन्तहृदयसंताप-

पाठा०-'स भूपतिः'. २ 'क्षपयन्ति'.