पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०८
शिशुपालवधे

कारिणी । 'कृञो हेतु-' (३।२।२०) इत्यादिना ताच्छील्ये टप्रत्यये 'टिड्ढाणञ्-' (४।०१५) इत्यादिना ङीप् । हरिचैद्यौ चैवंभूताविति सैवाप्रस्तुतप्रशंसा ॥२२॥

 परितप्यत एव नोत्तमः परितप्तोऽप्यपरः सुसंवृतिः ।
 परवृद्धिभिराहितव्यथः स्फुटनिर्भिन्नदुराशयोऽधमः ॥ २३ ॥

 परितप्यत इति ॥ किंच उत्तमः परवृद्धिभिर्न परितप्यते न व्यथत एव । उत्तमस्यापरशुभद्वेष एव नास्तीत्यर्थः । अपरो मध्यम एवेत्यर्थः । परितप्तोऽपि शोभना संवृतिः परितापगोपनं यस्य स सुसंवृतिः । सन्तमपि परशुभद्वेषं न प्रकाशयतीत्यर्थः । अधमस्तु परवृद्धिभिराहितव्यथः । उत्पादितसंतापः तथा स्फुटं निर्भिन्नः प्रकाशितो दुराशयः परशुभद्वेषलक्षणो दुरभिप्रायो यस्य सः । परशुभद्वेष्टि प्रकाशयति चेत्यर्थः । चैद्यश्चाधमो हरिस्तूत्तम इति प्रतीतेः पूर्वोक्त एवालंकारः ॥ २३ ॥

 ननु मानिनां परोत्कर्षप्रद्वेषो भूषणमेवेत्याशक्य नेत्याह-

 अनिराकृततापसंपदं फलहीनां सुमनोभिरुज्झिताम् ।
 खलतां खलनामिवासतीं प्रतिपद्येत कथं बुधो जनः ॥२४॥

 अनिराकृतेति ॥ अनिराकृता अनिवारिता तापसंपत् तापातिशयो यया ताम् । एकत्र संतापजननैकस्वभावादपरत्रासतच्छायाविरहाच्चेति भावः। तथा फलहीनाम् । एकत्र इहामुत्र चोपकारशून्यां प्रत्युतोभयत्राप्यनर्थकारी चेति भावः । अन्यत्र सर्वस्वरहितां सुमनोभिर्बुधैरुज्झितां अन्यत्र पुष्पैर्वर्जिताम् । 'सुमना पुष्पमालत्योः स्त्री देवबुधयोः पुमान्' इति वैजयन्ती । असती दुष्टाम्, अन्यत्र निरुपाख्यां खलस्य भावः खलता तां खलतां दुर्जनत्वम् । खस्य लता तां गगनलतिकामिव बुधो सदसद्विवेककुशलो जनः कथं प्रतिपद्येतावलम्बेत । न कथमपीत्यर्थः । वृथा मत्सरो न कस्यापि गुण इति भावः । तथापि खलतां प्रतिपद्यते चैद्यो न हरिरिति प्रतीतेः सैवाप्रस्तुतप्रशंसा खलतामिवेत्युपमया संकीर्यते । 'अत्यन्तासत्परिज्ञानमर्थे शब्दः करोति हि' इति न्यायादसत्या अपि प्रतीतिसत्याः खलतिकायाः खलतोपमत्वसिद्धिः ॥ २४ ॥

 नन्वेवं महानुभावो हरिः किमर्थं तथा सदसि राज्ञा निर्भत्स्यमानो मौनमास्थित इत्याशङ्क्य सत्यमनादरान्न तु कातर्यादित्याह-

 प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे ।
 अनुहुंकुरुते धनध्वनिं न हि गोमायुरुतानि केसरी ॥ २५ ॥

 प्रतीति ॥ केशवः शपमानाय आक्रोशते । स्वरितेत्वादात्मनेपदम् । चेदिभूभुजे । क्रियाग्रहणात्संप्रदानत्वम् । प्रतिवाचं प्रत्युत्तरं नादत्त । केसरी सिंहो धनध्वनिमनुहुंकुरुते प्रतिगर्जति । गोमायुरुतानि शिवारुतानि नानुहुंकुरुते । स्त्रि