पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०६
शिशुपालवधे

 इति जोषमवस्थितं द्विषः प्रणिधिं गामभिधाय सात्यकिः ।
 वदति स वचोऽथ चोदितश्चलितैकभ्रु च रथाङ्गपाणिना ॥१६॥

 इतीति ॥ इतीत्थंभूतां गां वाचम् । 'अर्जुनीनेत्रदिग्बाणभूवाग्वारिषु गौर्मता' इति विश्वः । अभिधाय जोषं तूष्णीमवस्थितम् । 'तूष्णीं जोषं भवेन्मौने' इति वैजयन्ती । द्विषः प्रणिधिं दूतं सात्यकिः । अथ दूतवाक्यानन्तरं रथाङ्गं चक्रं पाणौ यस्य तेन रथाङ्गपाणिना हरिणा । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' इति पाणेः परनिपातः । चलिता प्रेरिता एका भ्रूर्यस्मिन्कर्मणि तत् । 'गोस्त्रियोरुपसर्जनस्य' (१।२।४८) इति ह्रस्वः । चोदितः । अस्योत्तरं देहीति भ्रूसंज्ञया प्रेरितः सन्नित्यर्थः । वचो वदति सावादीत् ॥ १६ ॥

 किं तद्वचस्तदेकविंशतिश्लोकैराह-

 मधुरं बहिरन्तरप्रियं कृतिनाऽवाचि वचस्तथा त्वया ।
 सकलार्थतया विभाव्यते प्रियमन्तर्बहिरप्रियं यथा ॥ १७ ॥

 मधुरमित्यादि ॥ कृतिना कुशलेन त्वया बहिः प्रकाशे मधुरं प्रियं अन्तगर्भेऽप्रियं वचस्तथा तेन प्रकारेणावाचि उक्तम् । वचेः कर्मणि लुङि चिणि वृद्धिः। यथा येन प्रकारेण सकलार्थतया संपूर्णोभयार्थतया हेतुना अन्तःप्रियं बहिरप्रियं विभाव्यतेऽवधार्यते । अस्माभिरिति शेषः । अप्रियगर्भं प्रियं यदुक्तं तदस्माकं तु प्रियगर्भमप्रियमेव प्रतीयते । ईदृगुक्तिचातुर्यं तवैवेत्यभिप्रेत्योक्तं कृतिनेति । अतो न श्रद्धेयमिदं वच इति भावः ॥ १७ ॥

 अथवा बहिरेव प्रियं अन्तरेवाप्रियं तथापि न ग्राह्यमित्युपमया व्यनक्ति-

 अतिकोमलमेकतोऽन्यतः सरसाम्भोरुहवृन्तकर्कशम् ।
 वहति स्फुटमेकमेव ते वचनं शाकपलाशदेश्यताम् ॥ १८ ॥

 अतीति ॥ एकतो बहिः अतिकोमलम्, अन्यतः अन्तः सरसमार्द्रं यदम्भोरुहस्य वृन्तं प्रसवबन्धनं तदिव कर्कशं परुषं एकमेव ते तव वचनं ईषदसमाप्तं शाकपलाशं शाकपलाशदेश्यं महापत्राख्यतरुपत्रं तत्तुल्यम् । 'शाकः पलाशसारः स्याद्वरदारुः करच्छदः । महापत्रो महाशाकः स्थिरदारुर्हनीटकः ॥' इत्यभिधानरत्नमालायाम् । 'ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' (५।३।६७) इति देश्यप्रत्ययः । कल्पदेश्य देशीयानि सादृश्यवाचकानीति दण्डी । तस्य भावस्तत्ता तां वहति । अन्तःपरुषस्य बहिर्माधुर्यं यथा शाकपलाशवदिति भावः । अत्र शाकपलाशोपमायाः पद्मवृन्तोपमासापेक्षत्वात्संकरः ॥ १८॥

 ननु अप्रियगर्भेऽपि वाक्ये गुणग्राहिभिः प्रियमेव गृह्यतां हंसैः क्षीरमिवांभसीत्याशंक्याह-

 प्रकटं मृदु नाम जल्पतः परुषं सूचयतोऽर्थमन्तरा ।
 शकुनादिव मार्गवर्तिभिः पुरुषादुद्विजितव्यमीदृशः ॥ १९ ॥