पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०५
षोडशः सर्गः ।

 चलितानकदुन्दुभिः पुरः सबलस्त्वं सह सारणेन तम् ।
 समितौ रभसादुपागतं सगदः संप्रतिपत्तुमर्हसि ॥ १३ ॥

 चलितेति ॥ रभसाद्धर्षादुपागतं प्राप्तं तं चैद्यं त्वं पुरश्चलितानकदुन्दुभिः पुरोगतवसुदेवः । 'वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः' इत्यमरः । सबलो बलभद्रसहितः । सारणेन सारणाख्येन पुत्रेण सह ससारणः सगदः गदाख्येनानुजेन सहितः समितौ सभायां संप्रतिपत्तुं संभावयितुमर्हसि । सर्वबन्धुसमेतः प्रत्येतुमर्हसीत्यर्थः ॥

 परुषस्तु–समितौ समरे रभसाद्वेगादुपागतं 'रभसो वेगहर्षयोः । समितिः समरे साम्ये सभायामपि संगता' इत्युभयत्रापि विश्वः । तं चैद्यं पुरतश्चलिता आनकाः पटहाः, दुन्दुभयो भेर्यश्च यस्य सः । 'आनकः पटहोऽस्त्री स्यात्भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । सबलः ससैन्यः । सगदः गदया कौमोदक्या सहितः सन् सहसा झटिति रणेन युद्धेन संप्रतिपत्तुमभियोक्तुमर्हसि । अत्रापि शब्दार्थश्लेषसंकरः ॥ १३ ॥

 समरेषु रिपून्विनिघ्नता शिशुपालेन समेत्य संप्रति ।
 सुचिरं सह सर्वसात्वतैर्भव विश्वस्तविलासिनीजनः ॥१४॥

 समरेष्विति ॥ किंच समरेषु रिपून्विनिघ्नता । अतिशूरेणेत्यर्थः । शिशुपालेन समेत्यैक्यं प्राप्य संप्रति सुचिरं बहुकालं सत्वतः अपत्यानि पुमांसः सात्वता यादवाः । 'उत्सादिभ्योऽञ्' (४।११८६)। तैः सर्वैः सर्वसात्वतैः सह विश्वस्तविलासिनीजनः शिशुपालभयनिवृत्त्या विश्रब्धविलासिनीजनो भव । 'समौ विश्रम्भविश्वासौ’ इत्यमरः ।

 परुष -रिपुघातिना शिशुपालेन सह समरेषु समेत्य संगत्य संप्रत्येव सर्वसात्वतैः सह विश्वस्तविलासिनीजनो भव । 'विश्वस्ताविधवे समे' इत्यमरः । 'आदितश्च' (७।२।१६) इति चकारादनुक्तसमुच्चयार्थाच्छ्वसेर्निष्ठायामिट्प्रतिषेधः । शिशूनामनुद्धतानामेवायं पालयिता नोद्धतानामिति सर्वथा यादवानद्यैव हनिष्यतीति भावः॥१४॥

 विजितक्रुधमीक्षतामसौ महतां त्वामहितं महीभृताम् ।
 असकृजितसंयतं पुरो मुदितः सप्रमदं महीपतिः ॥ १५ ॥

 विजितेति ॥ असौ महीपतिश्चैद्यः मुदितः सन् विजितक्रुधं मैत्रीसंबन्धान्निरस्तक्रोधं महतां महीभृतां राज्ञां महितं पूजितम् । 'गतिबुद्धि-' (३।२।१८८) इत्यादिना वर्तमाने क्तः । तद्योगे षष्ठी । असकृद्धहुशो जिताः संयतः आजयो येन स तम् । 'समुदायः स्त्रियां संयत्समित्याजिसमिद्युधः' इत्यमरः । सप्रमदं सहर्ष त्वा त्वाम् । त्वामौ द्वितीयायाः' (८1१।२३) इति त्वादेशः । पुरोऽग्रे ईक्षतां पश्यतु ॥

 परुषस्तु-विजितक्रुधं संत्यक्तक्रोधं महतां महीभृतां चैद्यादीनामहितमरिमसकृज्जितश्चासौ संयतो बद्धश्च तम् । स्नातानुलिप्तवत्पूर्वकालेति समासः । 'बद्धो नद्धश्च संयतः' इति वैजयन्ती । सप्रमदं सस्त्रीकं त्वामिति पदच्छेदः । असकृदीक्षताम् ॥ १५॥