पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०४
शिशुपालवधे

नागकदम्बकैर्गजवृन्दैः परितः परिकीर्णा व्याप्ताः अत एव दुरासदा दुष्प्रवेशा भवन्तु । राज्ञा संधाने महदैश्वर्यं ते भविष्यतीत्यर्थः ॥

 परुषस्तु-घनजालनिभैः सान्द्रानायतुल्यैः । 'आनायः पुंसि जालं स्यात्' इत्यमरः । नागकदम्बकैः सर्पसंधैर्वनजैमृगादिभिर्मृगव्यालपुलिन्दप्रभृतिभिः । अथवा मृगादिभिः मृगभक्षकैः शरभशार्दूलादिभिः दुरासदा भवन्तु । राजविग्रहादरण्यप्रायं गता भवन्त्वित्यर्थः ॥ १० ॥

 सकलापिहितस्वपौरुषो नियतव्यापदवर्धितोदयः ।
 रिपुरुन्नतधीरचेतसः सततव्याधिरनीतिरस्तु ते ॥ ११ ॥

 सकलेति ॥ उन्नतमुदारं धीरमविकारं चेतो यस्य तस्य ते तव रिपुः सकलैरपिहितं तिरस्कृतं स्वपौरुषं यस्य सः । नियता नित्या व्यापदो विशिष्टापदो यस्य सः । अवर्धितोदयोऽसंपूरिताभ्युदयः सततव्याधिः संततरोगः । अनीतिर्नीतिरहितः एवं विधोऽस्तु ॥

 परुषस्तु-अचेतसोऽमनस्विनः ते रिपुश्चैद्यः सकलैरपिहितस्वपौरुषः अतिरस्कृतात्मविक्रमः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यलोपे नञ्समासः । नियतं नित्यं व्यापद्विगतापत् अवर्धितोदयोऽच्छिन्नोदयः । 'वृधु च्छेदने वृद्धौ' इति धातोः कर्मणि क्तः । उन्नतधीरुदारबुद्धिः सततव्याधिः विगताधिर्मनोव्यथारहितः । अनीतिरीतिबाधारहितोऽस्तु । 'अतिवृष्टिरनावृष्टिः शलभा मूषकाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥' अत्र सर्वत्र - पदभङ्गेनार्थद्वयप्रतिपादनाज्जतुकाष्टवदेकशब्दप्रतीतेः शब्दश्लेषः ॥ ११ ॥

 विकचोत्पलचारुलोचनस्तव चैद्येन घटामुपेयुपः ।
 यदुपुंगव बन्धुसौहृदात्त्वयि पाता ससुरो नवासवः ॥ १२ ॥

 विकचेति ॥ पुमान् गौरिव पुंगवः पुरुषर्षभः । उपमितसमासः । 'गोरतद्धितलुकि' (५।४।९२) इति समासान्तष्टच्प्रत्ययः । यदुषु पुंगव यदुश्रेष्ठ । 'श्रेष्ठोक्षाणौ तु पुंगवौ' इति वैजयन्ती । चैद्येन कर्त्रा घटां घनसंधिमुपेयुषस्तव संबन्धीनि विकचोत्पलानि वासनार्थं विहितानि तान्येव चारुलोचनानि यस्य सः । सह सुरया माध्व्या गौड्या वा ससुरः 'गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा' (मनु० ११।९४) इति वचनात् । अत्र क्षत्रियवैश्ययोः पैष्ट्यामेव निषेधः । नवासवो नवमद्यं नालिकेरादिकमिति सुरासवयोर्न पौनरुक्त्यम् । बन्धुसौहृदाद्बन्धौ त्वयि स्नेहात्पाता पास्यते त्वद्गृहे सह पानं करिष्यते । संप्रति ते सत्यतिपथत्वादिति भावः । पिबतेः कर्मणि लुट् ॥

 परुषस्तु-हे यदुपुंगव यादवबलीवर्द, चैद्येन सह घटामुपेयुषः समराभियोगं गतस्य तव विकचोत्पलवच्चारुलोचनः । ससुरः सदेवो वासवोऽपि बन्धुसौहृदात् । उपेन्द्रे त्वयि सौभ्रात्रादित्यर्थः । पाता त्राता न । किं पुनर्मशका भीष्मादय इति भावः । पातेस्तृच् । सुहृदयस्य भावः सौहृदमिति विग्रहः । युवादित्वादण्प्रत्ययः 'हृदयस्य हृल्लेख-' (६।३।५०) इति हृद्भावविधानसामर्थ्यान्न 'हृद्भग-' (७।३।१९) इत्युभयपदवृद्धिः । अत एव 'सौहृददौहृदशब्दाभ्यामणि हृद्भावौ' इति वामनः । सुहृदस्तु सौदार्हमेव । शब्दार्थश्लेषसंकरः ॥ १२ ॥