पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०३
षोडशः सर्गः ।

 परुषस्तु-त्वया सदृशोऽन्यो गुणवान्न भवतीत्यगुणवान्निर्गुणः कुतः। न कुत्रापीत्यर्थः । कुतः त्वमहितात् शत्रोस्सन् भीरुः । नास्त्यपत्रपा लज्जाविशेषो यस्येत्यनपत्रपो निर्लज्जः । 'लज्जा सापत्रपान्यतः' इत्यमरः । नतिमात्रेण प्रणामेनवोज्झितभीरपाकृतारिभयः, न तु पराक्रमेणेति भावः । अस्ति मतिरस्येत्यातिकोऽस्तिपरलोकः । पूर्ववट्ठक् । स न भवतीत्यनास्तिकः । नास्तिक इत्यर्थः । विनयो नयातीतः अपहितो हितादपेतः विस्मयो विगर्वो न भवतीत्यविस्मयो गर्वी । गर्वयुक्त इत्यर्थः । अत्राहितादित्यर्थश्लेषः । अन्यत्र शब्दश्लेष इत्यनयोः संकरः ॥ ७ ॥

 कृतगोपवधूरतेर्घ्नतो वृषमुग्रे नरकेऽपि संप्रति ।
 प्रतिपत्तिरधःकृतैनसो जनताभिस्तव साधु वर्ण्यते ॥ ८॥

 कृतेति ॥ गोप्य एव वध्वो गोपवध्वः । 'स्त्रियाः संवत्-' (६॥३॥३४) इत्यादिना पुंवद्भावः । तासु रतिः कृता येन तस्य । गोपीजनवल्लभस्येत्यर्थः । वृषं वृषभरूपिणमरिष्टाख्यमसुरं नतो मारयतः । हन्तेर्लटः शत्रादेशः । अधःकृतैनसो निरस्तकल्मषस्य तवोग्रे भयंकरे नरके नरकासुरे प्रतिपत्तिः प्रवृत्तिः । पुरुषकार इति यावत् । संप्रति जनताभिर्जनसमूहैः साधु वर्ण्यते । अहो महद्दुष्करं कृतमित्युपश्लोक्यते ॥

 परुषस्तु-गोपानां वधूषु रतिः कृता येन तस्य पारदारिकस्य वृषं धर्मं, वृषभं वा नतः । 'सुकृते वृषभे वृषः' इति विश्वः । अत एव कृतैनसः पापकृतः तव उग्रे दारुणे नरके निरये अधःप्रतिपत्तिरधःप्राप्तिः । 'प्रतिपत्तिः पदप्राप्तौ पौरुषे गौरवेऽपि च' इति विश्वः । संप्रति जनताभिः साधु वर्ण्यते । दुस्तरोऽस्य पापिष्ठस्य नरकपात इत्युद्धोध्यत इत्यर्थः । अत्र गोपपरदारिकोऽप्यधःकृतैना इति विरोधाभासः श्लेषेण संकीर्यते ॥८॥

 विहितापचितिर्महीभृतां द्विषतामाहितसाध्वसो बलैः ।
 भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमाभृताम् ॥ ९॥

 विहितेति ॥ सहानुचरः सानुचरः सभृत्यो महीभृता चैद्येन विहितापचितिः कृतपूजः । लोकवेदयोः सानुचरस्यैव राज्ञः पूज्यत्वप्रसिद्धेरिति भावः । अत एव बलैः सैन्यैः द्विषतां शत्रूणामाहितसाध्वसो जनितभयः सन् स्वयं महतामपि क्षमाभृतां राज्ञामुपर्युच्चकैरुन्नतस्त्वं भव सर्वोत्कर्षेण वर्तस्व ॥ परुषस्तु-महीभृता चैद्येन विहितापचितिः कृतहानिः। 'भवेदपचितिः पूजा- व्ययहानिषु निष्कृतौ' इति विश्वः । अत एव द्विषतां बलैराहितसाध्वसो भीषितः सन् त्वमुच्चकैः महतां क्षमाभृतां भूधराणामुपरि सानुषु चरतीति सानुचरः स भव । चरेष्टः । अत्रापि शब्दार्थश्लेषसंकरः ॥ ९॥

 घनजालनिभैर्दुरासदाः परितो नागकदम्बकैस्तव ।
 नगरेषु भवन्तु वीथयः परिकीर्णा वनजैर्मुगादिभिः ॥१०॥

 घनेति ॥ तव नगरेषु वीथयो रथ्या घनजालनिभैर्मेघसमूहकल्पैः वनजैवनभवैः मृगादिभिः मृगप्रभृतिभिः । भद्रो मन्द्रो मृगश्चेत्येवं त्रिविधैरपीत्यर्थः ।