पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०२
शिशुपालवधे

भूपतिस्तव शासनं शास्ति शिक्षां करिष्यते । यतस्त्वयैव अद्य स परवान् शत्रुमान् । त्वमेक एवास्य शत्रुरवशिष्ट इति भावः । अन्यत्समानम् । शासनं राजदत्तोर्व्यां लेखाज्ञाशास्त्रशास्तिषु' इति विश्वः ॥ ४ ॥

 प्रणामे हेतुमाह-

 अधिवह्नि पतगतेजसो नियतस्वान्तसमर्थकर्मणः ।
 तव सर्वविधेयवर्तिनः प्रणति विभ्रति केन भूभृतः ॥ ५॥

 अधीति ॥ अधिगतं वह्निपतङ्गयोरग्निभान्वोरिव तेजो येन तस्य । तत्तुल्यतेजस इत्यर्थः । नियतस्वान्तो नियतचित्तः स चासौ समर्थकर्मा च । खञ्जकुब्जवद्विशेषणसमासः । तस्य तथोक्तस्य सर्वे विधेयवर्तिनो वशवर्तिनः कर्मकरा यस्य तस्य के भूभृतः प्रणतिं नतिं न बिभ्रति । सर्वेऽपि बिभ्रतीत्यर्थः ॥ परुषस्तु-प्रणामे हेतुमाह-अधिवह्नि अग्नौ पतङ्गस्य शलभस्येव तेजः पौरुषं यस्य तस्य । 'पतङ्गः शलभे भानौ' इति विश्वः । नियते अव्यभिचारे स्वान्ते स्वविनाशे समर्थ हेतुभूतं कर्म यस्य तस्य सर्वेषां विधेये वर्तते विधेयं वर्तयति वा सर्वविधेयवर्तिनः सर्वकिंकरस्य निष्पौरुषस्य तव केन गुणेन भूभृतः प्रणति विभ्रति । न केनापीत्यर्थः ॥ ५॥

 जनतां भयशून्यधीः परैरभिभृतामवलम्बसे यतः ।
 तव कृष्ण गुणास्ततो नरैरसमानस्य दधत्यगण्यताम् ॥ ६ ॥

 जनतामिति ॥ हे कृष्ण हे हरे, भयशून्यधीर्निर्भीकचित्तः सन् परैः शत्रुभिरभिभूतां जनतां जनसमूहम् । 'ग्रामजन-' (४।२।४३) इत्यादिना समूहे तल् प्रत्ययः । यतोऽवलम्बसे परिगृह्णासि । रक्षसीत्यर्थः । ततोहेतोर्नररैसमानस्य, अमानुषमहिम्न इत्यर्थः। तव गुणा आर्तभूभरणादयः।अगण्यतामसंख्येयतां दधति॥ परुषस्तु-हे कृष्ण मलिनात्मक, भयशून्यधीर्मूढबुद्धिः परैस्त्वदन्यैः 'परं दूरान्यमुख्येषु परोऽरिपरमात्मनोः' इत्युभयत्रापि वैजयन्ती । अभिभूतामवधीरितां जनतां पशुपालनपारतन्त्र्यादिना पृथग्जनत्वम् । भावेऽर्थे तल्प्रत्ययः । यतोऽवलम्बस आश्रयसि । ततो नरैरसमानस्य । ततोऽपि हीनस्येत्यर्थः । तव गुणाः लेशतः स्वभावतोऽपीति भावः । अगण्यतामनादरणीयतां दधति ॥ ६ ॥

 अहितादनपत्रपस्त्रसन्नतिमात्रोज्झितभीरनास्तिकः ।
 विनयोपहितस्त्वया कुतः सदृशोऽन्यो गुणवानविस्मयः ॥७॥

 अहितादिति ॥ त्वया सदृशोऽन्यो गुणवान् गुणाढ्यः कुतः । न कुत्रापीत्यर्थः । कुतस्त्वं अहितादनार्थात्रसन् । अधर्मभीरुरित्यर्थः । अपत्रपो निस्त्रपो न भवतीति अनपत्रपस्त्रपावान् । अकार्यजुगुप्सुरित्यर्थः । अतिमात्रमत्यन्तमुज्झितभीः । त्यक्तारि- भय इत्यर्थः । नास्तीति मतिरस्येति नास्तिकः नास्तिपरलोकः । 'अस्तिनास्तिदिष्टं मतिः' (१।४।६०) इति ठक् । स न भवतीत्यनास्तिकः । आस्तिक इत्यर्थः । विनयेनानौद्धत्येनोपहितो विशिष्टः । विनयवानित्यर्थः । विस्मयो विशिष्टगर्वो न भवतीत्यविस्मयोऽगर्वः॥

'आर्तरक्षणादयः'.