पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९१
पञ्चदशः सर्गः ।

हलायुधः । किं नाभिहत किमिति न मारयत । किंत्वभिहतेत्यर्थः । हन्तेर्वधार्थे लोट् । 'लोटो लङ्कत्' (३।४।८५) इति थस्य तादेशः । ’अनुदात्तोपदेश-' (६।४।३७) इत्यादिनानुनासिकलोपः । अहो अतिवध्योऽपि न हन्यत इत्याश्चर्ये । अत्रामर्षानुभावो वागारम्भः । 'क्रोधः कृपापराधेषु स्थिरोऽमर्ष इतीर्यते' इति ॥६३॥

 अथवाध्वमेव खलु यूयमगणितमरुद्गणौजसः ।
 वस्तु कियदिदमयं न मृधे मम केवलस्य मुखमीक्षितुं क्षमः ॥६४॥

 अथवेति ॥ अथवा अगणितमरुद्गणौजसोऽवधीरितसुरसङ्घसत्त्वाः यूयमादध्वमेव तूष्णीं तिष्टतैव खलु । आस्तेर्लोटि 'धि च' (८।२।२५) इति सकारलोपः । इदं कृष्णहननं कियद्वस्तु कियत्कार्यम् । अल्पमित्यर्थः । कुतः । अयं कृष्णो मृधे युद्धे । 'मृधमास्कन्दनं संख्यम्' इति युद्धपर्यायेष्वमरः । केवलस्यैकाकिनो ममैव मुखमीक्षितुं न क्षमः युष्माकं का वार्तेति भावः । एतेनास्य बलगर्यो व्यज्यते । "आत्मोत्कर्षोऽन्यधिक्कारो यल्लावण्यविभूतिभिः' इति लक्षणात् ॥ ६४ ॥

 विदतुर्यमुत्तममशेषपरिषदि नदीजधर्मजौ ।
 यातु निकषमधियुद्धमसौ वचनेन किं भवतु साध्वसाधु वा॥६५।।

 विदतुरिति ॥ किंच नदीजधर्मजौ भीष्मयुधिष्ठिरौ । अशेषपरिषदि समप्रसंसदि । 'परिषत्संसत्' इति विश्वः । यं कृष्णमुत्तमं विदतुः । विदितवन्तावित्यर्थः । 'विदो लटो वा' (३।४।८३) इति तसोऽतुसादेशः । असौ कृष्णः । अधियुद्धं युद्धे । विभक्त्यर्थेऽव्ययीभावः । निकषं निकषणं यातु । परीक्ष्यतामित्यर्थः । ततः साधूत्कर्षोऽसाध्वनुत्कर्षों वा भवतु । व्यक्तमस्त्वित्यर्थः । वचनेन किम् । वृथा वाग्वीर्यैरलमित्यर्थः । अत्रापि गर्वामर्षौ व्यज्यते ॥ ६५॥

 अचिरान्मया सह गतस्य समरमुरगारिलक्ष्मणः ।
 तीक्ष्णविशिखमुखपीतमसृक्पततां गणैः पिबतु सार्धमुर्वरा ॥६६॥

 अचिरादिति ॥ किंच मया सह समरं गतस्योरगारिलक्ष्मणो गरुडध्वजस्य संबन्धि तीक्ष्णैर्विशिखमुखैः पीतम् । मद्वाणोच्छिष्टमित्यर्थः । असृक् रक्तमुर्वरा भूमिः । 'उर्वरा सर्वसस्याढ्यभूमौ स्याद्भूमिमात्रके' इति विश्वः । पततां गणैः पक्षिसमूहैः । 'पतत्पत्ररथाण्डजाः'इत्यमरः । सार्धमचिरात्पिबतु । अद्यैवाहमेनं हनिष्यामीत्यर्थः । अत्राप्यमर्ष एवेति भावः ॥ ६६ ॥

 अभिधाय रूक्षमिति मा म गम इति पृथासुतेरिताम् ।
 वाचमनुनयपरां स ततः सहसावकर्ण्य निरियाय संसदः॥१७॥

 अभिधायेति ॥ स चैद्य इतीत्थं रूक्षं परुषमभिधाय ततः पृथासुतैः पार्थैरीरितामुक्तामनुनयपरां मा स्म गमो न गच्छेति वाचम् । ‘स्मोत्तरे लङ् च'(३॥३॥१७६) इति चकाराद्गमेराशिषि लुङि 'पुषादि-' (३।१।५५) इति च्लेरङादेशः