पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९०
शिशुपालवधे

न्कर्मणि तद्यथा तथा । चलितैः भूभृतो राजानस्त एव अङ्घ्रिपाः पादपास्तैः सदः सभामण्डलं दुतः शीघ्रो वातपातो वायुप्रचारो यस्य तस्य वनस्य विभ्रमं शोभाम् । “विभ्रमः संशये भ्रान्तौ शोभायां च' इति वैजयन्ती । अमृत बभार । भृञो लुङि तङ् 'उश्च' (१।२।१२) इति सिचः कित्त्वाद्गुणाभावः 'ह्रस्वादङ्गात्' (८।२।२७) इति सलोपः । अत्र वनविभ्रममिति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धा निदर्शना नेत्रकुसुमेत्यादिरूपकोत्थापितेति संकरः ॥ ६० ॥

  हरिमप्यमंसत तृणाय कुरुपतिमजीगणन वा ।
 मानतुलितभुवनत्रितयाः सरितः सुतादविभयुर्न भूभृतः ॥६१ ॥

 हरिमिति ॥ मानतुलितभुवनत्रितया अहंकारावधीरितजगत्रयाः भूभृतश्चैद्यपक्षा राजानः । हरिमपि तृणायामसत तृणसमममन्यन्त । तथा लघुं मेनिर इत्यनादरोक्तिः । मन्यतेः कर्तरि लुङि च्लेः सिच् । अनुदात्तत्वादिट्प्रतिषेधः । 'मन्यकर्मणि-' (२।३।१७) इति चतुर्थी । कुरुपतिं च नाजीगणन् । न धर्मराजं गणयन्ति स्मेत्यर्थः । गणेर्णेो चङि 'ई च गणः' (७।४।९७) इत्यभ्यासस्येकारः । सरितः सुताद्धीष्मादपि नाबिभयुर्न भीताः । बिभेतेर्लुङि 'श्लौ' (६।१।१०) इति द्विर्भावे 'सिजभ्यस्तविदिभ्यश्च' (३।४।१०९) इति झेर्जुसादेशः । 'जुसि च' (७।३।८३) इति गुणः । अत्र राजसु हर्यवमानाद्यनेकक्रियायोगपद्यात्समुच्चय इति सर्वस्वकारः ॥ ६१ ॥

 गुरु निःश्वसनथ विलोलसदवथुवपुर्वचोविषम् ।
 कीर्णदशनकिरणाग्निकणः फणवानिवैष विससर्ज चेदिपः ॥६२॥

 गुर्विति ॥ अथैष चेदिपः फणवान्फणीव । गुर्वधिकं निःश्वसन्फूत्कुर्वन् विलोलं सदवथु ससंतापम् । 'संतापो दवथुः' इत्यनेकार्थादिति सज्जनः । तद्वपुर्यस्य स विलोलसदवथुवपुः । 'ट्वितोऽथुच्' (३।३।८९)। कीर्णा विक्षिप्ता दशनकिरणा अग्निकणा इव यस्य स तथा सन् वचो विषमिव तद्वचोविषं विससर्ज । विषप्रायं वच उज्जगारेत्यर्थः । अतः फणवानिवेति व्यस्तोपमालिङ्गात्सर्वत्रोपमितसमासाश्रयणम् ॥ ६२॥

 अथैतद्वचोविषमेव चतुर्भिराह-

 किमहो नृपाः समममीभिरुपपतिसुतैर्न पञ्चभिः ।
 वध्यमभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया ॥६३॥

 किमित्यादि ॥ हे नृपाः, अमीभिः पञ्चभिरुपपतिसुतैः समं जारजैः सह । पाण्डवानां क्षेत्रजत्वादित्थं प्रलापः । अनया स्थविरराजकन्यया क्षत्रियाङ्गनया च सह । 'कन्या कुमारिकानार्योः' इति विश्वः । भीष्मस्योर्ध्वरेतस्कत्वेन निन्दा । वध्यं वधार्हम् । अराज्ञो राजार्हणग्रहणापराधादिति भावः । अराजत्वं व्यनक्ति-अमुं भुजिष्यं किंकरम् । कंसपशुपालनादिति भावः । 'भुजिष्यः किंकरो मतः' इति


'अहंकाराद्धारित'.