पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८९
पञ्चदशः सर्गः ।

 विवृतोरुबाहुपरिघेण सरभसपदं निधित्सता
 हन्तुमखिलनृपतीन्वसुना वसने विलम्बिनि निजे विचस्खले ॥५७॥

 विवृतेति ॥ अखिलनृपतीन् हन्तुं विवृतः प्रसारित उरुबाहुरेव परिघ आयुधविशेषो येन तेन । 'परिघः प्रतिघातेऽस्त्री' इति हैमः । सरभसं ससत्वरं यत्पदं तनिधित्सता निधातुमिच्छता । दधातेः सन्नन्ताल्लटः शत्रादेशः । वसुना तन्नाम्ना राज्ञा विलम्बिनि उत्पातवेगाद्द्विस्रंसिनि निजे वसने स्वाम्बरे विचस्खले स्खलितम् । तद्ध्यस्य दुर्निमित्तमिति भावः । भावे लिट् । अत्र वस्त्रसंसनस्य विशेषणगत्या स्खलनहेतुत्वात्काव्यलिङ्गं तद्बाहुपरिघेति रूपकेण संसृज्यते ॥ ५७ ॥

 इति तत्तदा विकृतरूपमभजत्तदविभिन्नचेतसम् ।
 मारबलमिव भयंकरतां हरिबोधिसत्त्वमभि राजमण्डलम् ॥५८॥

 इतीति । इतीत्थं तदा तस्मिन्काले विकृतरूपं रोषभीषणाकारं तद्राजमण्डलं मारबलमिव मदनसैन्यमिव । 'मदनो मन्मथो मारः' इत्यमरः । अविभिन्नचेतसमविकृतचित्तं बोधिसत्त्वो बुद्धः । 'बुद्धस्तु श्रीघनः शास्ता बोधिसत्त्वो विनायकः' इति वैजयन्ती। स हरिरिवेत्युपमितसमासः । तं हरिबोधिसत्त्वमभि । तत्समक्षमित्यर्थः । 'अभिरभागे' (१।४।९१) इत्यभेः कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । भयं करोतीति भयंकरः । 'मेघर्तिभयेषु कृजः' (३।२।४३) इति खच्प्रत्यये मुमागमः । तस्य भावस्तत्तामभजत् । उपमालंकारः । तेन भगवतो बुद्धस्य समाधिभङ्गाय प्रवृत्तं मारबलं यथा तेन भग्नं तथा राजमण्डलमपि हरिणा भज्यत इति वस्तु व्यज्यते ॥ ५८ ॥

 रभसादुदस्थुरथ युद्धमनुचितभियोऽभिलाषुकाः ।
 सान्द्रमुकुटकिरणोच्छलितस्फटिकांशवः सदसि मेदिनीभृतः ॥५९॥

 रभसादिति ॥ अथानन्तरमनुचितभियोऽनभ्यस्तसाध्वसाः । 'अभ्यस्तेऽप्युचितम्' इति यादवः । अत एव युद्धमभिलाषुका युद्धार्थिनः । 'लषपत-' (३।२।१५४) इत्यादिना उकञ्प्रत्यये 'न लोका-' (२।३।६९) इत्यादिना षष्ठीप्रतिषेधः । सदसि मेदिनीभृतः सदसि स्थिताश्चैद्यपक्षीया राजानः । सान्द्रैर्मुकुटकिरणैरुच्छलिताः स्फटिकांशवः सभाभित्तिस्फटिकमणिमयूखा यैस्ते तथोक्ताः सन्तो रभसाद्वेगात् उदस्थुरुत्थिताः । 'उदोऽनूर्ध्वकर्मणि' (१॥३॥२४) इत्यस्य प्रत्युदाहरणमेतत् । अत्र युद्धाभिलाषुकस्य विशेषणगत्योत्थानहेतुत्वात्काव्यलिङ्गभेदः ॥५९॥

 स्फुरमाणनेत्रकुसुमोष्ठदलमभृत भूभृदङ्घ्रिपैः ।
 धूतपृथुभुजलतं चलितैर्द्रुतवातपातवनविभ्रमं सदः॥६० ॥

 स्फुरमाणेति ॥ स्फुरमाणानि नेत्राण्येव कुसुमान्योष्ठा एव दलानि च यस्मिकर्मणि तद्यथा तथा धूताः कम्पिताः पृथवो भुजा एव लताः शाखा यस्मि-


'निपित्सता'. [* अत्र छन्दोमङ्गः सुधीभिर्विमर्शनीयाः.]