पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८८
शिशुपालवधे

 प्रतिघः कुतोऽपि समुपेत्य नरपतिगणं समाश्रयत् ।
 जामिहरणजनितानुशयः समुदाचचार निज एव रुक्मिणः ॥५३॥

 प्रतिघ इति ॥ प्रतिघः कोपः । 'कोपक्रोधामर्षरोषप्रतिघा-' इत्यमरः । कुतोऽपि समुपेत्यागत्य नरपतिगणं राजमण्डलं समाश्रयत्समाविशत् । रुक्मिणस्तु जामिः स्वसा । 'जामिः स्वसूकुलस्त्रियोः' इत्यमरः । तस्या रुक्मिण्या हरणेन जनितोऽनुशयो 'हा कष्टमापन्नं ! कदा निर्यातयामि' इत्यनुतापो यस्मिन्सः । 'अथा- नुशयो दीर्घद्वेषानुतापयोः' इत्यमरः । निजो नित्य एव प्रतिघः । 'निजमात्मीयनित्ययोः' इति विश्वः । समुदाचचार समुद्दिदीपे । भीष्मवाक्यमन्येषां कोपोत्पादकमासीत्, रुक्मिणस्तु प्रागेवावरूढकोपस्योद्दीपकमासीदित्यर्थः । अत्रानुशयस्य विशेषणगत्या कोपोद्दीपनहेतुत्वात्काव्यलिङ्गभेदः ॥ ५३ ॥

 चरणेन हन्ति सुबलः स शिथिलितमहीध्रबन्धनाम् ।
 तीरतरलजलराशिजलामवभुग्नभोगिफणमण्डलां भुवम् ॥ ५४॥

 चरणेनेति ॥ सुबलो नाम राजा महीं धारयन्तीति महीध्राः पर्वताः । 'कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्' (वा०) इति कप्रत्ययः । शिथिलितानि विश्लेषितानि महीध्राणां बन्धनानि संधयो यस्यास्ताम् । तीरेण तरलानि भूकम्पाच्चलितानि जलराशेरम्बुधेलानि यस्यास्ताम् । अवभुग्नं कुटिलम् । अतिभारादित्यर्थः । भोगिनां फणिनां फणमण्डलं फणासमूहो यस्यास्तां भुवं चरणेन हन्ति स्म जघान । 'लट् स्मे' (३।२।११८) इति भूतार्थे लट् । अत्र पादाघाताद्भुवः कम्पासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥ ५४ ॥

 कुपितेषु राजसु तथापि रथचरणपाणिपूजया ।
 चित्तकलितकलहागमनो मुदमाहुकिः सुहृदिवाधिकां दधौ ॥५५॥

 कुपितेष्विति ॥ रथचरणपाणेश्चक्रपाणेः पूजया राजसु तथा कुपितेष्वपि चित्ते कलितं निश्चितं कलहागमनं युद्धलाभो येन स आहुकिः आहुकिर्नाम राजा शोभनं हृदयं यस्य स सुहृन्मित्रमिव । कृष्णपक्षपातीवेत्यर्थः । 'सुहृदुर्हृदौ मित्रामित्रयोः' (५।४।१५०) इति निपातः । अधिकां मुदं दधौ संतोषं धृतवान् । सुदुःसहोऽपि कृष्णोत्कर्षः कलहकण्डूलबाहोराहुकेः मोदहेतुरासीदित्यर्थः । उपमालंकारः ॥ ५५॥

 गुरुकोपरुद्धपदमापदसितयवनस्य रौद्रताम् ।
 व्यात्तमशितुमिव सर्वजगद्विकरालमास्यकुहरं विवक्षतः॥५६॥

 गुर्विति ॥ विवक्षतः किमपि वक्तुमिच्छतः । वचेः सन्नन्ताल्लटः शत्रादेशः । असितयवनस्य कालयवनस्य राज्ञः संबन्धि सर्वजगदशितुमत्तुमिव व्यात्तं विवृतम् । अत एव विकरालमतिविकृतम् । 'करालो दन्तुरे तुङ्गे विशाले विकृतेऽपि च' इति वैजयन्ती । गुरुणा कोपेन रुद्धपदं प्रतिबद्धवचनमास्यकुहरं वऋविवरं रौद्रातां भयंकरतामापत् । अत्राशितुमिवेति फलोत्प्रेक्षा व्यादानक्रियानिमित्ता ॥ ५६ ॥


'यामि