पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८७
पञ्चदशः सर्गः ।

कनीनिके ताभ्यामनुमितेऽनुमापिते ताम्रे नयने यस्य तत् । 'तारकाक्ष्णः कनीनिका' इत्यमरः । सर्वमुखस्य रक्तत्वादिति भावः । बाणो नृपस्तस्य वदनं सकीलं कीलाकारच्छायासहितम् । परिधियुक्तमिति यावत् । सूर्यमण्डलमिव जगतो भिये भयाय उददीपि प्रजज्वाल । दीप्यतेः कर्तरि लुङि 'दीपजन-' (३।१।६१) इत्यादिना चिण्प्रत्यये तलुक् । अत्र नयनयोः स्वधावल्यत्यागेनारुण्यस्वीकारात्तद्गुणः । तत्सापेक्षत्वादौत्पातिकसूर्यमण्डलोपमासंकरः ॥४८॥

 प्रविदारितारुणतरोग्रनयनकुसुमोज्वलः स्फुरन् ।
 प्रातरहिमकरताम्रतनुर्विषजद्रुमोऽपर इवाभवद्रुमः ॥ ४९ ॥

 प्रवीति ॥ प्रविदारितेऽतिविकासिते अरुणतरे क्रोधादतिरक्ततरे अत एवोग्रे भयंकरे ये नयने ते एव कुसुमे ताभ्यामुज्वलो दीप्तः स्फुरन्वतेजसा दीप्यमानः प्रातरहिमकरताम्रतनुः प्रभातार्कारुणविग्रहः प्रसिद्धो दुमो दुमाख्यो नृपः अपरो विषजद्रुम इवाभवदित्युत्प्रेक्षा रूपकसंकीर्णा ॥ ४९ ॥

 अनिशान्तवैरदहनेन विरहितवतान्तरार्द्रताम् ।
 कोपमरुदभिहतेन भृशं नरकात्मजेन तरुणेव जज्वले ॥५०॥

 अनिशान्तेति ॥ अनिशान्तोऽनिर्वाणो वैरदहनो विरोधाग्निर्यस्य तेन अत एवान्तरभ्यन्तरे आर्द्रतां सारस्यं विरहितवता त्यक्तवता । रहयतेः क्तवतुप्रत्ययः । कोपो मरुदिव तेनाभिहतः प्रज्वलितः तेन नरकात्मजेन वेणुदारिणा तरुणा वृक्षेणेव भृशं जज्वले ज्वलितम् । भावे लिट् । उपमालंकारः ॥ ५० ॥

 अभिधित्सतः किमपि राहुवदनविकृतं व्यभाव्यत ।
 ग्रस्तशशधरमिवोपलसत्सितदन्तपति मुखमुत्तमौजसः ॥ ५१ ॥

 अभीति ॥ किमप्यभिधित्सतोऽभिधातुमिच्छतः । दधातेः सन्नन्ताल्लटः शत्रादेशः । उत्तमौजसो नाम राज्ञः संबन्धि राहुवदनविकृतं व्यात्तत्वादाहुवक्रवत्करालम् , उपलसन्ती लक्ष्यमाणा सिता दन्तपङ्क्तिर्यस्य तन्मुखं ग्रस्तशशधरमिव संदष्टचन्द्रमिव व्यभाव्यतातर्यत । इत्युत्प्रेक्षा ॥ ५१ ॥

 कुपिताकृतिं प्रथममेव हसितमशनैरसूचयत् ।
 क्रुद्धमशनिदलिताद्रितटध्वनि दन्तवक्रमरिचक्रभीषणम् ॥५२॥

 कुपितेति ॥ प्रथमं प्रागेव । अकुपितावस्थायामपीत्यर्थः ।कुपितस्येवाकृतिर्मुखरागो यस्येत्युपमा । अरिचक्रभीषणं परबलभयंकरं दन्तवर्क दन्तवकनामानं राजानम् । अशनिदलितस्य वज्रहतस्याद्रितटस्य ध्वनिरिव ध्वनिर्यस्य तदित्युपमा । न शनैः अशनैः । उच्चैर्हसितमट्टहासः । स क्रुद्धमसूचयत् । सर्वदा मुखरागस्य विशेषणादनुभावान्तरवेद्यः । क्रुद्ध इत्यर्थः । अत्र कोपव्यञ्जकसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिरुपमासंकीर्णा ॥ ५२ ॥